Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 1, Part B

वर्तमानकाले आध्यात्मिकचिन्तने रमाचौधुरीविरचितस्य युगजीवनम् इति नाटकस्य माहात्म्यम्

उत्तमकुमारवेरा.

शोधप्रबन्धेऽस्मिन् वर्तमानकाले आध्यात्मिकतायाः प्रयोजनीयताविषये आलोचना वर्तते। आधुनिकमानवाः विविधकारणैः अतीव जड़वादिनः सांसारिकजटिलतायां विरक्ताश्च। आध्यात्मिकचेतना हि तदमृतं येन मनुष्याः पुनर्जीवितुं शक्नुवन्ति। अस्मदीये देशे काले काले प्रमुखावताराः आगत्य मनुष्येभ्यः अमृतवाणीं प्रदत्तवन्तः। परन्तु तेषाम् आचरितमार्गः इदानीन्तनानां मनुष्याणां समीपे तावत् प्रभावं न धारयति। तत्र श्रीश्रीरामकृष्णदेवस्य सहजबोध्यं भक्तितत्त्वं मनुष्याणां परमोपकारं साधयिष्यति। रमाचौधुरी आधुनिकसंस्कृतसाहित्यस्य प्रख्याता कवयित्री। त्वया श्रीश्रीरामकृष्णदेवमुपरि युगजीवनमिति नाटकं विरचितम्। नाटकेऽस्मिन् रामकृष्णदेवस्य युगजीवनत्वं प्रकाशितं रामकृष्णस्य पूतकथामवलम्ब्य। शोधप्रबन्धेऽस्मिन् रामकृष्णदेवस्य अमृतोपदेशो जीवनमार्गश्च सुन्दरतया वर्णितौ वर्तेते। नाटकमिदं पर्यालोच्य यानि आध्यात्मिकानि तत्त्वानि परिलभ्यन्ते सविस्तरम् आलोच्यते। संकेतत्रयेण तदालोचितं वर्तते क. भगवान् अस्माकं परमात्मीयः नापरः ख. विग्रहधारी ईश्वरो हि परमब्रह्ममयः ग. जीवसेवा हि शिवसेवा
Pages : 83-85 | 107 Views | 49 Downloads


International Journal of Sanskrit Research
How to cite this article:
उत्तमकुमारवेरा.. वर्तमानकाले आध्यात्मिकचिन्तने रमाचौधुरीविरचितस्य युगजीवनम् इति नाटकस्य माहात्म्यम्. Int J Sanskrit Res 2024;10(1):83-85.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.