Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 1, Part B

तत्ववैशारदीकारः वाचस्पतिमिश्रः

सस्मिता सेठी

स्वस्वरुपप्रतिष्ठासाधनं योगदर्शनं न्याय-वैशेषिक-सांख्य-योग-मीमांसा-वेदान्तेति षड्षु दर्शनेषु मूर्धन्यं वरीवर्त्ति । तत्र योगदर्शनस्य प्रवर्त्तकाचार्यरुपेण महर्षिः पतञ्जलिः प्रथितयशा विद्यते । श्रीरामभद्रदीक्षितविरचिते पतञ्जलिचरिते प्रोक्तम्- सूत्राणि योगशास्त्रे वैद्यकशास्त्रे च संहितामतुलाम् । कृत्वा पतञ्जलिमुनिः प्रचारयामास जगदिदं त्रातुम् इति ।।1 योगवार्तिके विज्ञानभिक्षुरपि व्रवीति-- योगेन चित्तस्य पदेन वाचाम् मलं शरीरस्य च वैद्यकेन । योsपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोsस्मि ।। तत्र पतञ्जलिप्रणीतं योगदर्शनं समाधि-साधन-विभूति-कैवल्यनामकैः चतुर्भिपादैः विभक्तम् । तेषु प्रथमपादे योगस्य लक्षणं स्वरुपं,द्वितीयपादे योगसाधनभित्तिकसूत्राणि विन्यस्तानि । तृतीयपादे धारणा-ध्यान-समाधिप्रभृतिविवरणानि तथा चतुर्थपादे कैवल्यरुपमोक्षस्य विचारः समुपन्यस्तं विद्यते । दर्शनेsस्मिन् षडविंशतितत्वानि सन्ति । यथा मूलप्रकृतिः, महत्, अहंकारः, शब्द-रुप-रस-गन्ध-स्पर्शेति पञ्चतन्मात्राणि, क्षिति-अप्-तेज-मरुत्-व्योमेति पञ्चमहाभूतानि, चक्षु-जिह्वा-नासिका-त्वक्-कर्णेति पञ्चज्ञानेन्द्रियाणि, वाक्-पाणि-पाद-पायु-उपस्थेति पञ्चकर्मेन्द्रियाणि, मनः, पुरुषःतथा ईश्वरः। एषु षडविंशतिपदार्थेषु ईश्वरं विहाय पञ्चविंशतितत्वानि सांख्यदर्शनान्तर्गतानि सन्ति । सांख्यनये त्रिविधदुः खनिवृत्तये पञ्चविंशतिपदार्थज्ञानमपरिहार्यम् । परन्तु योगदर्शनरीत्या षड्विंशतिपदार्थज्ञानं यद्यपि प्रयोजनं परन्तु चित्तवृत्तिनिरोधात् सस्वरुपावस्थानमेव निर्विशेषं लक्ष्यं जायते । यत्तु कैवल्यलाभ स्वरुपप्रतिष्ठारुपेण विनिश्चितम् । अत्र योगदर्शने पुरुष इत्युक्ते क्लेशकर्मविपाकाशयैः1 सार्धं यः सम्बन्धशून्यः ।
Pages : 75-79 | 109 Views | 64 Downloads


International Journal of Sanskrit Research
How to cite this article:
सस्मिता सेठी. तत्ववैशारदीकारः वाचस्पतिमिश्रः. Int J Sanskrit Res 2024;10(1):75-79.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.