शुक्लयजुर्वेदस्य वाजसनेयिसंहितायां चत्वारिंशत् अध्यायाः विद्यन्ते। तन्मध्ये चतुस्त्रिंशदध्याये शिवसङ्कल्पसूक्तमस्ति। अस्मिन् सूक्तस्य षट् मन्त्रेषु एव अगस्त्यः ऋषिणा मनसः विषये आलोचनां कृतवान्। शिवसङ्कल्पसूक्तमिति पदस्य अभ्यन्तरे 'शिवÑ, 'सङ्कल्पÑ, 'सूक्तम्Ñ चेति शब्दत्रयमस्ति। 'शिवÑ इति पदस्यार्थं भवति शुभं, महत् मङ्गलमयश्चेति। 'सङ्कल्पÑ इति पदस्यार्थं भवति 'स्थिरीकृतकर्मÑ इति। 'सूक्तम्Ñ इति पदस्यार्थः सुन्दर उक्तिः। अतः शिवसङ्कल्पसूक्तमिति पदस्यार्थः स्थिरीकृतानि कर्माणि शुभं भवतु एवं रूपं सुन्दरमुक्तानि।
अत्र प्रश्नमुद्घाटयति यत् कस्य स्थिरीकृतानि कर्माणि? उत्तरमस्ति मनसः। सूक्तेऽस्मिन् मनसः वैशिष्ट्यानि निरूपितानि। 'मनस्Ñ इति शब्दः भवति सकारान्तः क्लिबलिङ्गञ्च। वैदिकयुगादेव मनसः विषये गभीराध्ययनस्य धारा प्रवाहितास्ति। विशेषतः अगस्त्यः ऋषिणा शुक्लयजुर्वेदस्य शिवसङ्कल्पसूक्ते षट् मन्त्रेषु मनसः विस्तारितालोचना कृतः। तत्र ऋषिणा निर्देशितं यत् अपूर्वमिन्द्रियं भवति मनः। अपि च इन्द्रियमिदं ज्योतिरूपं गमनशीलञ्च। उत्तमः सारथिः यथा प्रयोजनानुसारेण यथायथमश्वानां रश्मिसंयमनं कृत्वा रथं चालयति तथैव सारथिवत् मनस्तु मनुष्यानां चालकः।
गमनशीलता तु मनसः धर्मः। चक्षुरादीन्द्रियापेक्षया मनः द्रुतं गन्तुं शक्नोति। न केवलं सुप्तस्य पुरुषस्य, जाग्रतः पूरुषस्यापि पञ्चकर्मेन्द्रियाणि पञ्चज्ञानेन्द्रियाणि त्यक्त्वा मनः द्रुतं वहुदूरं गन्तुं शक्यते। मुहुर्तमेव पुनरागमनं कर्तुं शक्यते। मनसः अभीष्ट विषयेन सह संयोगहेतोः गमनागमनमिदम्। यागादिकार्येषु यानि विधिविधानानि कर्माणि सन्ति तानि विधिविधानानि कर्माणि मनीषिणः मनसा क्रियन्ते। उत्कृष्टः ज्ञानं विशेषः ज्ञानस्य वा जनको एव मनः। मनः धैर्यस्य आधार-स्वरूपम् अमृतस्वरूपञ्च। मनः ज्ञानस्य प्रकाशः। मनसा भूतकालं , वर्तमानकालं भवीष्यत्कालं सर्वं परिगृहीतमस्ति। हृदये भवति मनसः प्रतिष्ठा। एवं शक्तिमान पदार्थस्य सङ्कल्पं शुभं भवतु इति निर्दिशम् अगस्त्यः ऋषिणा शिवसङ्कल्पसूक्तस्य षट् मन्त्रस्य माध्यमेन यत् व्याख्यां कृतवान् तदस्मिन् प्रवन्धे प्रकाशं करणाय प्रयासं भविष्यति।