Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 3, Part D

वातव्याधि चिकित्सायां आमपाचनस्य प्राधान्यम्

Dr. Vairamuthu K and KJ Niranjana

इदानिं तन साहचर्ये अस्माकं जीवितचर्यायां नानविध परिवर्तनानि दृश्यन्ते I तत्विषयं आयुर्वेदरीत्या अवलोकनं कुर्म:I “आरोग्यार्थं मूलकारणं अग्नि: एव” इति आयुर्वेदे प्रदिपादितम् I शरीरस्य निर्मांणार्थं, संरक्षणार्थं तादृशमेव नाशार्थं अपि मूलकारणं अग्नि: एव I अधिकतया अग्ने: वैषम्यमेव रोगाणां कारणम् I मन्दाग्नि, विषमाग्नि, तीक्ष्णाग्नि एते अग्निवैषम्यस्य भेदा: इति आयुर्वेदे सूचितम् I यदा मन्दाग्नि: विशेषतया स्तम्भनावस्थायां भवति तदा आमोत्पत्ति: भवति I अधुना जनेषु दृश्यमान रूक्ष, लघु आहार, शीतलाहार:, अजीर्ण, अभोजन इत्याद्यै: वातकफकर निदानसेवन प्रवणता दृश्यते । आमद्वारा स्रोतसां रोधं कृत्वा धातूनां दुष्टि: तदनन्दरं रोगोत्पत्ति: संभव्यते I वातव्याध्या: चिकित्सा सूत्रे आमपाचन, वातहर आहारविहार सेवनं, शोधनं, धातुवृद्धि: च प्रतिपादितमस्ति I तत्र शोधनात्पूर्वं आमपाचनं करणीयम् I अत: वातव्याधि चिकित्सायां आमपाचन प्राप्त्यर्थं बाह्य, आभ्यन्तर रुक्षणप्रक्रिया नानाविध स्तरा: श्रेष्ठतया उपयुज्यते I आमपाचन द्वारा सम्यक् निराम लक्षणं प्राप्य केवल वातव्याधि चिकित्सा करणीया I अत: आमपाचनस्य यथार्थज्ञानं वातव्याधि चिकित्सायां अत्यन्तं प्रयोजनप्रदं इति मम अभिप्राय: II
Pages : 234-237 | 1205 Views | 152 Downloads


International Journal of Sanskrit Research
How to cite this article:
Dr. Vairamuthu K, KJ Niranjana. वातव्याधि चिकित्सायां आमपाचनस्य प्राधान्यम्. Int J Sanskrit Res 2023;9(3):234-237.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.