International Journal of Sanskrit Research
2023, Vol. 9, Issue 3, Part C
उपनिषत्सु पुरुषस्वरूपम्
Rajib Hossain
भारतीयपरम्परायामुपलभमानासु उपनिषत्सु आत्मनः पर्यायवाचित्वेन पुरुषपदस्य प्रयोगोऽसकृत्प्राप्यते। ‘पुरि शेते’ इति व्युत्पत्या पुरुषपदं निष्पद्यते। सांख्ये आत्मा ‘पुरुषः’ इति पदेन अभिधीयते। वृहदारण्यकोपनिषदि याज्ञवल्क्येन सह कौषीतिकीपुत्रस्य कहोलस्य संवादे शोकमोहजरामृत्युप्रभृतिभ्योऽसंलग्नोऽपराऽन्तरात्मा उपदिष्टः। वृहदारण्यकस्य ३/७ – श्लोके उद्दालकाऽरुणिभ्यां सह याज्ञवल्कस्य संवादे सुत्रान्तर्यामिनोः परस्परं भेदः चर्चितः। तत्र सूत्रपदेन प्रकृत्याऽभिहितौ स्थावरः चरिष्णुश्च अनुसृतौ। तयोः नियन्ता परमात्मा इत्युच्यते, याज्ञवल्कः तं परमात्मानं ‘आत्मन्तर्याम्यमृतः’इति पदेन व्यपदिदेश। श्वेताश्वतरोपनिषदि उच्यते परमात्मानं ज्ञातुं सदा प्रयत्नः कर्तव्यः। तदपेक्षया उत्कृष्टः कोऽपि नास्ति। संसारे त्रीणि तत्त्वानि निर्दिष्टानि – भोक्ता, भोग्यः कर्ता च। भोक्ता भवति जीवात्मा, भोग्या प्रकृतिः, प्रेरिता च परमात्मा। एते त्रयः समुदिता एव सर्वेषां शासकः, प्रकाशस्वरूपः, अविनाशी च। ब्रह्मविन्दूपनिषदि आत्मनः लोकालोकगमनोपाधिस्वरूपेण पुरुषः निर्दिष्टः। यथा सर्वव्यापिनि आकाशे गतिः न भवति परन्तु घटादीनां उपाधीनां गतिः तस्मिन् उपचरिता भवति तथैव नभोपमस्थितिः जीवात्मनः पुरुषस्यापि कठोपनिषदि उच्यते आत्मा जरामुत्युरहितः, नित्यश्च। न च जन्यः न वा जनकः अतः अजः नित्यश्च। शरीरे विनष्टेऽपि आत्मा अविनाशी एव। देहिनः देहे नष्टे यदवशिष्यते स एव आत्मा। 1अशुद्धेन जगता सह सम्पर्कात् जीवात्मनः मलीनत्वं प्रतीयते। परमात्मना सह सम्पर्के सति स शुद्धो भवति। यथा शुद्धं जलं अशुद्धे पतति अशुद्धमेव भवति तथैव जीवात्माऽपि देहिनः संस्पर्शेन मलीनः भवति परन्तु परमात्मनः संस्पर्शात् शुद्धः भवति।)
How to cite this article:
Rajib Hossain. उपनिषत्सु पुरुषस्वरूपम्. Int J Sanskrit Res 2023;9(3):155-160.