संस्कृतसाहित्ये बहुनि प्रसिद्धकाव्यनाटकादीनि सन्ति, तन्मध्ये महाकवेः अश्वघोषविरचितं बुद्धचरितम् एकं अन्यतमं महाकाव्यम्।
भगवतः बुद्धस्य जीवनमबलम्ब्यअष्टाविंशतिसंख्यकैः सर्गैः रचितं महाकाव्यमेतद्।
महाकाव्येऽस्मिन् काव्यगतविषयेन सह दर्शन-व्याकरण-धर्मशास्त्र-कामशास्त्रगतविषयाः, तथा च आयुर्वैदिकसिद्धान्ताः अपि निबद्धाः सन्ति। बुद्धचरितमहाकाव्ये वर्णितानाम् आयुर्वैदिकप्रयोगानां विश्लेषणमेव प्रबन्धस्यास्य विषयः।