International Journal of Sanskrit Research
2023, Vol. 9, Issue 2, Part D
महाकविमाघस्य आयुर्वेदचिन्तनम्
Mrityunjoy Sen
संस्कृतसाहित्ये महाकविमाघकृतस्य शिशुपालवधमहाकाव्यस्य महत्वपूर्णस्थानं विद्यते। महाभारतस्य शिशुपालवधस्य वृत्तान्तमवलम्ब्य विंशतिसर्गात्मकैः सर्गैः महाकाव्यमेतद् रचितम्। दर्शन-व्याकरण-कोश-राजनीति-अर्थशास्त्र-काव्यशास्त्र-अलङ्कारशास्त्र-धर्मशास्त्रादिभिः सह आयुर्वेदशास्त्रेऽपि महाकवेः पाण्डित्यमासीदिति महाकाव्यमेतद् विश्लेष्य ज्ञायते। महाकाव्येऽस्मिन् आयुर्वेदिकप्रयोगानाम् आलोचनमेव प्रबन्धस्यास्य सारः।
How to cite this article:
Mrityunjoy Sen. महाकविमाघस्य आयुर्वेदचिन्तनम्. Int J Sanskrit Res 2023;9(2):222-225.