वेद: एव भारतीयसंस्कृते: मूलाधार:। वेदस्य कान्डद्वयं स्वीकृतम्- ज्ञानं कर्म च। उपनिषद् तथा ज्ञानपरम्। यद्यपि मोक्षार्थाय ज्ञानमेव मूलं तथापि तस्यात्मज्ञानस्य साधनरूपेण कर्मयोगः स्वीकृत:। अत: ज्ञानं कर्म च परिपूरकम्। गीतायां गीयते-
“सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।” (४/३३)
जगति चेतनाचेतनश्च पदार्थद्वयं स्वीकृतम्। तत्र चेतन: प्राणवान् जीव: इति। यत्र प्राणानाम् अस्तित्वं तत्र आत्मा सुप्रकाशित:। यावत् मानवा: जीविताः तावदेव प्राणानां कार्यकारिता। प्राणहीनजीव: मृतरेव। एतेन प्राणात्मनो तादात्म्यम् अभेदत्वं वा सूच्यते। परन्तु प्राणानामुत्पत्ति: कीदृशेन सम्भवति? प्राणानाम् अवयवा: स्वीकृता:। सावयवत्वे सति प्राणानाम् अवश्यमेव जन्यत्वं स्वीकृतम्। प्राणानामुत्पत्तिविषये वेदान्त्सारे निर्णीतम्- “तम:प्रधानविक्षेपशक्तिमदज्ञानोपहितचैतन्यात् आकाश:, आकाशात् वायु: इत्यादिक्रमेण पञ्चसूक्ष्मभूतानि उत्पद्यन्ते। अत: प्राणादिपञ्चलिङ्गशरीरम् आकाशादिगतरज: अंशेभ्यो मिलितेभ्य: उत्पद्यते। शरीरे प्राणाः मुख्यविषयाः। स: हृदिस्थित्वा पृथक् पृथगेव कार्यं सम्पादयति। प्राणा: मूलत: जीवशरीरे प्राणापान्समानव्यानोदाना: पञ्चवायवा: एव। प्राणा एक: एव पञ्चविभागत्वेन स्थित्वा पृथक् कार्यं सम्पादयन्ति। यथा प्राणा: इति चक्षु:शोत्रमुखनासिकाभ्यां तिष्ठन्ति। प्राणापानयो: नाभ्यां मध्ये तु समान: वायु: अशितं पीतञ्च समं नयति। सर्वदेहं संव्याप्य व्यानो वर्तते। ऊर्द्ध उदान: तथा ऊर्द्धगमनवति सुषम्नाख्या नाडी इति। न केवलं शरीराभ्यन्तरे अपि तु वहि:जगति प्राणाद्यवयवानां प्रकाशत्वम्।
परमपुरुषार्थ: मोक्षः सर्वेषां काम्य:। ब्रह्मज्ञानेन आत्मज्ञानेन वा मोक्षः प्रारब्धते। अस्मिन् चेतनशरीरे मानव: प्राणोपासनया आत्मत्वं लभते। तदेव समाधिना सम्भवम्। स्थिरचित्ते आत्मनि एकाग्रता अवश्यमेव अपरिहार्या। प्राणोपासनया प्राणात्मनो: एकात्मता जायते। प्राणशक्त्या दु:खादि परित्यज्य परमानन्दं लब्धते। तदेव मोक्ष्स्वरूपम्।
प्राणान् आश्रित्य आत्मा जीवे तिष्ठति। अनेन जीवात्मज्ञानेन परमात्मनं ज्ञायते। तदेव जीवानां मोक्षस्वरूपम्। तैत्तिरीयोपनिषदि श्रूयते- “सर्वमेव त आयुर्यन्ति, ये प्राणं ब्रह्मोपासते।”