प्रबन्धे इह मया क्षीरतरङ्गिणी-माधवीयधातुवृत्त्योरालोकेन आत्मनेपदिधातूनां धात्वर्थवैसादृश्यम् आलोचितम्। दिङ्मात्रोदाहरणेन विषयः अयं स्पष्टीक्रियते। आचार्यसायणस्तु “राघृ-लाघृ-द्राघृ-सामर्थ्ये” इति धातुसूत्राद् अव्यवहितमनन्तरमेव “द्राघृ आयामे च” इति धातुसूत्रस्य पाठं कृतवान्। “द्राघृ आयामे च” इति धातुसूत्रस्थस्य चेति शब्देन पूर्वधातुसूत्रस्थितसामर्थरूपधात्वर्थो द्योत्यते।
भ्वादिगणीयाद् आत्मनेपदिद्राघृधातोः सामर्थ्यम् आयामश्चेत्यर्थः। पाणिनीयधातुपाठे “राघृ लाघृ द्राघृ सामर्थ्ये । ध्राघृ इत्यपि केचित्। द्राघृ आयामे च” इत्याकारेणापि पाठः प्राप्यते। अत एव ‘द्राघृ’धातोः अर्थस्वीकारे सायणाचार्यः आचार्यपाणिनेर्मतम् अनुसरति स्म।
क्षीरस्वामिना साकं सायणाचार्यस्य दिवादिगणीयडिङ्धातोः धात्वर्थविषये मतभेदः परिलक्ष्यते। डिङ्धातोः धात्वर्थविषये आसीत् क्षीरस्वामिपक्षसमर्थकः हेमचन्द्रः कातन्त्रधातुपाठकृत्। सामर्थ्यायामरूपार्थौ विहायापि ‘द्राघृ’धातोर्बहवः अर्थाः सन्ति, तद्यथा दैर्घ्यकरणम्, यातनाप्रदानम्, शक्तिमत्त्वञ्चेति। ‘द्राघृ’धातोरपि ‘द्राघते’, ‘दद्राघे’, ‘द्राघिष्यते’, ‘अद्राघत’, ‘द्राघेत’ चेत्यादीनि रूपाणि प्राप्यन्ते । ‘द्राघृ’धातोः सनि ‘दिद्राघिषते’, यङि ‘दाद्राघ्यते’, णिचि च ‘द्राधयति’ इति एवंप्रकारेण रूपाणि भवन्ति।