Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part F

भारतीयसंविधाने मानवाधिकारः

पियाली मालाकार

मानवसमाजः अति प्राचीनः । मानवः यदा समाजे निवसति तदा सदस्येषु पारस्परिकः सहयोगः एव तस्य समृद्धजीवनं निर्मातुं सहायतां प्रयच्छति । दृश्यते खलु संसारे सामाजिकसदस्येषु वैमनस्यं कलहञ्च । अस्य कारणं वर्तते स्वार्थसाधने वाधा, समृद्धजीवननिर्माणाय अन्तरायश्च । अतः सर्वे सामाजिकः सदस्याः स्वकीयम् उन्नतिं साधयन्तु, तेषां जीवनं संघर्षं शून्यं भवतु इति धिया समाजे सदस्यानां कृते केचन अधिकाराः कर्तव्यानि च निर्धारितानि । एकस्य अधिकारः अपरस्य कर्तव्यं वर्तते । इतिहासः एव प्रमाणं, यत् अधिकारः कर्त्तव्ययोः मध्ये बहुधा संघर्षं प्रचलति ।
यदि शिक्षासंस्थायाः सदस्याः तेषां कर्तव्यम् अधिकारञ्च प्रति सचेतनाः स्युः, तर्हि शिक्षा प्रक्रियायाः सुसञ्चालनं मानव संसाधननां सुसंयतः विकासः आयाससाध्यः न भवेत् । अतः शिक्षाक्षेत्रे मानवाधिकारं प्रति सचेतनता नित्यान्त काम्या ।
1945 तम वर्षे संयुक्तराष्ट्रसंघस्य स्थापना अभवत् । ततः मानवाधिकारायोगस्य घटनमभवत् । आयोगः 1946 तम वर्षे मानवाधिकारस्य एका विश्वव्यापिघोषणां प्रस्तुतवान् । संयुक्तराष्ट्रसंघस्य महासभया 10 दिसम्वर “मानवाधिकारदिवस” रूपेण अङ्गीक्रियते । मानवाधिकाराणां संरक्षणाय संवर्द्धनाय च कार्यरतं भवति इयं संस्था ।
संविधानस्य प्रारम्भे नागरिकाणां कृते षटमौलिकाधिकारः विषये वर्णितमस्ति । यथा – समानताधिकारः, शिक्षायाः अधिकारः, स्वतन्त्रताधिकारः, धार्मिकस्वतन्त्रताधिकारः, नारीणामधिकारः, शिशुनामधिकारः संविधानकाधिकारश्च ।
Pages : 321-323 | 614 Views | 54 Downloads
How to cite this article:
पियाली मालाकार. भारतीयसंविधाने मानवाधिकारः. Int J Sanskrit Res 2021;7(1):321-323.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.