International Journal of Sanskrit Research
2020, Vol. 6, Issue 3, Part A
वैदिकग्रन्थेषु संस्कृतवाङ्मये च कृषिकार्येषु जलप्रबन्धनम्
डाॅ0 दीपाली जैन, डाॅ0 वीना विश्नोई शर्मा
ज्ञायते यत् पृथिव्यां भूस्तरीयजलस्रोतानां कृषिसिचनकार्येषु आवश्यकता: वर्तते। तत्र नद्य: निर्झरा: प्रस्रवणा: जलप्रवाहवŸवात्स्रोतांसि भवन्ति। जलाशया: भूगर्भीयजलेन वर्षाजलेन च सदैव अन्त: प्रवाहवन्त: भवन्ति।वर्षा मृतस्वरूपं नदीजलाशयानां स्थिति:, भूगर्भीयशैला: इत्यादय: भूमिगतजलस्य दशां निश्चितां कुर्वन्ति। तत् भूमिगतं जलं बहुभि: आधुनिकै: यन्त्रै: निष्काष्य कृषिसिचनकार्ये प्रयुज्यते । भूगर्भे वर्षाजलं भूपृष्ठीयजलं च विविधमार्गेभ्य: भाण्डारी क्रियते। तस्य स्तरे आवर्तपरिवर्तनं भवति। वर्षाकाले भौमजलस्तरम् उच्चतरं भवति, अत: भूगर्भीयजलभण्डारेषु अतिरिक्तजलपूर्ति: जायते। वर्षातिरिक्तऋतिषु लोकै: उपयोगाय संदुह्यमानं भूगर्भीयजलं वर्षाऋतौ पुन: पूर्यते। प्राचीनकालादेव सर्वाधिकं भूमिगतजलमेवोपभुज्ये कृषिसिचनकार्ये च प्रयुज्यते। वर्षाहिमद्रावितजलयो: भूपृष्ठीयजलस्य सन्तुलनं भूमिगतेनैव जलेन क्रियते। असीमितमपि भूगर्भीयजलं पुन:पूरणं (त्मबींतहम) पद्धत्या नैसर्गिकरूपेण अविछिन्नस्रोतस्त्वेन स्वीक्रियते। मानवै: उपयोगात् विमोचनेन, मलाशयानां, जलप्रस्रवेण, नगरेषु अपवाहकुल्याभि:, मलिनसामग्रीभि: स्थलपूरणेन कृषियोग्यभूमिषु प्रयुज्यमानरासायनिकोर्वकानां अनुप्रयुक्तजलेन प्रदूषितं जलमनेशैलेभ्य: मृल्लवणतां खनिजधातूनां पोषकगुणांश्चाहृत्य जलमपि कृषिसिंचनकार्ये सर्वथा उपयोगी भवति। प्राचीनकाले कृषिसिंचने विशेषध्यानं दीयते स्म। महाभारते सभापर्वणि राजानं उच्यते यत् स: स्वराज्यस्य विभिन्नभागेषु जलयुक्ता: कूपा: तडागाश्च निर्मीयेत् तथा कृषि: केवलं वर्षाऽऽश्रिता न भवेत्।
How to cite this article:
डाॅ0 दीपाली जैन, डाॅ0 वीना विश्नोई शर्मा. वैदिकग्रन्थेषु संस्कृतवाङ्मये च कृषिकार्येषु जलप्रबन्धनम्. Int J Sanskrit Res 2020;6(3):01-03.