संस्कृतसाहित्ये जातीयतावादभावनेति विषयस्य उत्सांन्बेषणाय चलामस्तावद् ऋग्वेदीये संस्कृत साहित्ये। प्राचीनकाले भारतभूमौ नवागता अस्माकं पूर्वपुरुषा आर्यजना भारतभूखण्डे स्वकीय निवासभूमेः असुराभिधेयेऽनार्येभ्यो रक्षार्थं यदा सततयुयुधाना आसन्, तदा तेषां तस्मिन् युद्धे कल्पिताखिलदेवतामण्डले एकान्तसहायरूपेण परमवलशालिनी समाविरासीद् इन्द्राख्या काचिद् देवतैव। भिण्टारनित्सप्रभृत्यर्वाचीनप्रतीच्यपण्डितानां मतेन अत्रैव स्वनिवासभूमिखण्डरक्षार्थं जातीय सचेतनताया प्रथम सूत्रपातः। यजुर्वेदसंहितायां राष्ट्रचिन्ता अथर्ववेद संहितायाः भूमिसूक्तम् स्थालीपुलाकन्यायेन सुदूरवैदिकयुगे अपि स्वीय भूमिचेतना प्रसूताधुनिक जातीयतावादस्य वीजमावहति। एवं प्राचीनभारते वैदिकयुगे स्वनिवासभूमिखण्डं प्रति प्रीतिरेव प्राचीनजातीयतावादविमर्शनस्य अग्रदूतीभवतीति स्थितम्। डक्टर दिलीपकाञ्जिलाल कृतात् – “Literature on Patriotism and Patriotic Feeling in Sanskrit” ग्रन्थात् उल्लेखो यथा -"The use of the word जन्मभूमि can be traced to as old a period as First century B.C. Love for Motherland, nay of India, comes in as a refrain in Sanskrit Literature from hoary past.”