चिकित्साविज्ञानः मानवजीवने अत्यन्तापेक्षितः । विश्वेऽस्मिन् चिकित्साविज्ञानमेव प्रत्येकस्य मानवस्य शारीरिकं मानसिकं च जीवनं गतिमयं करोति । संस्कृतसाहित्ये अस्य चिकित्साशास्त्रस्य मूलरूपं विद्यते । तत्र नैकाः कवयः साहित्येन चिकित्साविज्ञानस्य विषयवस्तुनि प्रकाशयन्ति । तेषु विश्वकविकालिदासस्य नाम अग्रगण्यः सुप्रसिद्धश्च ।
अस्य विषयचयनस्य उद्देश्यमेवमस्ति-अधुना सर्वेषां विदुषां मनसि वहवः प्रश्नाः जायन्ते-साम्रतकालेऽपि संस्कृतसाहित्ये प्रतिपादितचिकित्साविज्ञानस्य उपयोगित्वम् अस्ति वा? यदि अस्ति तर्हि कीदृशं उपादेयत्वम्? किं च तेषां व्यवहारिकता उपयोगिता वा? आधुनिककाले सुस्थ शरीरं विधातुं ते समर्थाः वा? अतः एतेषां प्रश्नानां समाधनाय कालदासीयसाहित्येषु प्रतिफलित-चिकित्साविज्ञानस्य विवेचनेन आधुनिकमानवस्य कल्याणसाधनं भवतीति विचारित्वा शोधपत्रमिदं मया स्वीक्रियते ।