चतुर्दशविद्यास्थानेषु स्वस्थानमनितरसाधारण्येन अलङ्करोति मीमांसाशास्त्रम् । प्राचीनकाले शास्त्रीयपद्धत्या एव न्यायनिर्णयः क्रियते स्म । बहवः लौकिकाश्च अलौकिकाश्च न्यायाश्च विषयस्पष्टीकरणार्थं बहुत्र अधिकरणेषु सञ्चारिताः । तेषु यथा अतिदेशन्यायः, होलिकान्यायः, आरुणिन्यायः, षोडशीन्यायः, स्थपतिन्यायः, कपिञ्जलन्यायः, अपच्छेदन्यायः इत्यादयः अन्यतमाः । श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यारूपेषु प्रमाणेष्वपि केचन न्यायाः व्युत्पादिताः भवन्ति । अत्र व्युत्पादिताः न्यायाः न केवलं मीमांसाशास्त्रे अपितु शास्त्रान्तरेष्वपि एते न्यायाः स्वीकृताः इति महानादरः ।
प्राचीनकाले न्यायव्यवस्थां दृढीकर्तुं मीमांसा-धर्मशास्त्रोक्तन्यायानुसारेण न्यायव्यवस्था प्रचलिता आसीत् परन्तु स्वातन्त्र्योत्तरयुगे न्यायालये वैदेशिकाः मैक्स्वेल्व्याख्यासिद्धान्तान् उपस्थापितवन्तः यदधुनाऽपि “Maxwell principles of Interpretation” इति नाम्ना प्रसिद्धम् । तदनुसृत्य न्यायालये न्यायनिर्णयः भवति । सम्प्रत्यपि कतिपयेषु सन्दर्भेषु यत्र मैक्स्वेल्सिद्धान्तान् अनुसृत्य समाधानं न भवति तत्र मीमांसासिद्धान्ताः सहायकाः भवन्ति । मीमांसाशास्त्रोक्ताः बहवः न्यायाः न्यायालये आश्रियन्ते, तदनुसृत्य केचन न्यायनिर्णयाः अपि अभवन् । अतः मीमांसा-मैक्स्वेलसिद्धान्तयोः प्रवर्तमानन्यायिकप्रणालीदृष्ट्या समीक्षणम् अत्यावश्यकम् एव ।