Red Paper
Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 6, Part D

राष्ट्रशिक्षानीतेः सन्दर्भे शिक्षकस्य भूमिका

ड: सुब्रत कुमार मान्ना

शिक्षा ज्ञानं, कौशलं, अनुभवं च प्राप्तुं प्रक्रिया अस्ति, या व्यक्तिस्य समग्रविकासाय सहायकं भवति । शिक्षा राष्ट्रस्य मेरुदण्डः अस्ति । देशस्य विकासाय शिक्षायाः प्रगतिः अत्यावश्यकी अस्ति । राष्ट्रियशिक्षानीतिः देशस्य शिक्षाव्यवस्थायाः संरचनायाः क्रियाकलापस्य च मार्गदर्शनं कुर्वती योजना अस्ति । अर्थात् यस्य देशस्य शिक्षाव्यवस्था सर्वकारस्य निरीक्षणे चालिता भवति, या देशस्य सर्वेषां नागरिकानां कृते समानावकाशान् सुनिश्चितं करोति । अस्य मुख्यं लक्ष्यं भवति यत् सर्वेषां छात्राणां कृते एकं निश्चितस्तरं यावत् गुणवत्तापूर्णशिक्षा सुनिश्चिता भवतु, यत्र सर्वेषां जातिः, धर्मः, लिङ्गः च न कृत्वा शिक्षणस्य अवसरः प्राप्स्यति । तथा च राष्ट्रियशिक्षानीतेः सन्दर्भे शिक्षकस्य भूमिका अधिका महत्त्वपूर्णा अस्ति । शिक्षकानां कार्यं केवलं शिक्षणं न भवति, ते छात्राणां प्रतिभायाः विकासस्य, मानसिकनिर्माणस्य, मूल्यानां स्थापनायाः, सामाजिकजागरूकतायाः निर्माणस्य च जनकाः सन्ति । शिक्षकाः पाठ्यक्रमात् परं गत्वा छात्रान् जीवनाधारितं ज्ञानं, चिन्तनं, मूल्यानि च शिक्षितुं शक्नुवन्ति । राष्ट्रियशिक्षानीतेः एकं लक्ष्यं शिक्षायाः गुणवत्तायाः उन्नयनम् अस्ति । शिक्षकाः सक्रियशिक्षणस्य, समूहचर्चा, समकालीनविषयाणां समावेशः, अन्यशिक्षणप्रविधिनाम् उपयोगेन, अत्याधुनिकपद्धतिं स्वीकृत्य छात्राणां मध्ये गुणवत्तापूर्णशिक्षायाः आवश्यकताः पूरयन्ति शिक्षकाः न केवलं छात्राणां शैक्षणिकज्ञानं प्रति केन्द्रीकृताः भवन्ति, ते छात्राणां शारीरिक-मानसिक-भावनात्मक-विकासाय अपि कार्यं कुर्वन्ति । राष्ट्रशिक्षानीत्याः अन्तर्गतं सामाजिक-मानसिक-जागरूकतायाः महत्त्वं दत्तम् अस्ति । शिक्षकाः छात्रेषु विश्वासं निर्माणं कुर्वन्ति, येन ते भविष्याय सज्जाः भवितुम् अर्हन्ति । अतः यदि कश्चन देशः अग्रे गन्तुम् इच्छति तर्हि तस्य नागरिकेषु सामाजिकदायित्वस्य मूल्यानां च भावः स्थापयितुं महत्त्वपूर्णःअस्ति ।राष्ट्रशिक्षानीतेः लक्ष्यं राष्ट्राय आदर्शनागरिकाणां निर्माणम् अस्ति । बालकानां मध्ये देशभक्तिः, मानवता, सहानुभूतिः, सहिष्णुता च विकसितुं शिक्षकानां कार्यं भवति । यथा कक्षायां ज्ञानं वितरन्ति तथा छात्राणां मध्ये नैतिकतां मानवीयमूल्यानि च स्थापयित्वा राष्ट्रस्य भवितब्य निर्माणमपि कुर्वन्ति । अतएब शिक्षकानां क्रियाकलापाः राष्ट्रशिक्षानीतेः सफलकार्यन्वयनस्य, देशस्य समग्रविकासस्य च मापदण्डः भवन्ति ।
Pages : 234-237 | 81 Views | 38 Downloads


International Journal of Sanskrit Research
How to cite this article:
ड: सुब्रत कुमार मान्ना. राष्ट्रशिक्षानीतेः सन्दर्भे शिक्षकस्य भूमिका. Int J Sanskrit Res 2025;11(6):234-237. DOI: 10.22271/23947519.2025.v11.i6d.2874

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.