Red Paper
Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 6, Part C

कल्हणकृतराजतरङ्गिण्यां राजनैतिकजीवनस्य वस्तुनिष्ठता

रमन कुमार शर्मा

अखिलभुवनमण्डले भारतभूमेः गौरवं सर्वत्रैव प्रचक्षते । तत्रापि स्वर्गतुल्यभूमौ काश्मीरप्रान्ते भगवद्भास्करस्य देवालये कल्हणस्य राजतरङ्गिण्याः रचनाञ्चकार । काश्मीरीयकुलीनकुटुम्बे निवासिना आचार्यकल्हणेन विरचिता संस्कृतशास्त्रीयभाषायां पद्यशैल्यां निबद्धा ‘राजतरङ्गिणी’ इत्याख्या रचना एकं न्यायाधीशमिव रागद्वेषविमुक्तं काश्मीरस्य क्रमबद्धेतिहासस्य एकं निर्भिकं निष्पक्षञ्च काव्यं प्रवर्तते यत्र सामाजिकराजनैतिकधार्मिकजनजीवनस्य विषये विस्तृतं ज्ञानं संलभते । प्रारम्भिककाले वैदिकपौराणिकजैनबौद्धसंस्कृतीनां बाहुल्यमासीत् । परञ्च वर्त्तमानसमये काश्मीरप्रान्ते बाहुल्येन इस्लामिकदर्शनस्य संस्कृतेश्च प्राधान्यं सम्प्राप्यते । यद्यपि आदौ वैदिकपौराणिकजैनबौद्धदर्शनानां समन्वय एवात्रासीत् । यैः मानवतावाद-धर्मनिरपेक्षता-सहिष्णुतेत्यादीनां क्रमबद्धो विकासो बभूव । राजतरङ्गिण्यां काश्मीरप्रान्तस्य शासकानां वंशावलीनां, शासकानां नीतीनामुल्लेखः, आर्थिक-धार्मिक-भौगोलिक-सामाजिक-सांस्कृतिकेत्यादिविषयाणां सत्यनिष्ठघटनानां पक्षविपक्षाणाञ्च समुल्लेखो राजते ।
Pages : 162-165 | 87 Views | 37 Downloads


International Journal of Sanskrit Research
How to cite this article:
रमन कुमार शर्मा. कल्हणकृतराजतरङ्गिण्यां राजनैतिकजीवनस्य वस्तुनिष्ठता. Int J Sanskrit Res 2025;11(6):162-165. DOI: 10.22271/23947519.2025.v11.i6c.2862

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.