Red Paper
Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 6, Part C

कल्हणकृतराजतरङ्गिण्यां धार्मिकजीवनस्य वस्तुनिष्ठता

रमन कुमार शर्मा

न केवलं भारतवर्षे अपितु निखिलविश्वे भारतभूमेः तथा तस्याः संस्कृतेः गौरवं सर्वत्रैव राजते । तत्रापि स्वर्गतुल्यभूमौ काश्मीरप्रान्ते विविधकविलेखकमहाकविषु महाकविकल्हणस्य नामायाति । तत्र काश्मीरप्रान्ते कल्हणस्य राजतरङ्गिण्याः रचना अभवत् । काश्मीरीयकुलनिवासिना आचार्यकल्हणेन निर्मिता संस्कृतशास्त्रीयभाषायां पद्यशैलीनिबद्धा ‘राजतरङ्गिणी’ इति नामकी रचना न केवलं राजनैतिकं चित्रं चित्रयति अपितु ऐतिहासिक-सामाजिक-राजनैतिक-आर्थिकादिविषयेषूपरि दृष्टिं पातयति ।
पुरा काश्मीरस्थविविधधर्माणामथवा वैदिकपौराणिकजैनबौद्धसंस्कृतीनां बाहुल्यमासीत् । परञ्चाधुनिकसमये काश्मीरप्रान्ते बाहुल्येन इस्लामिकदर्शनस्य संस्कृतेश्च प्राधान्यं सम्प्राप्यते । यद्यपि तत्रादौ वैदिकपौराणिकजैनबौद्धदर्शनानां समन्वय एवात्रासीत् । यैः मानवतावाद-धर्मनिरपेक्षता-सहिष्णुतेत्यादीनां क्रमबद्धो विकासो बभूव । राजतरङ्गिण्यां काश्मीरप्रान्तस्य शासकानां वंशावलीनां, शासकानां नीतीनामुल्लेखः, आर्थिक-धार्मिक-भौगोलिक-सामाजिक-सांस्कृतिकेत्यादिविषयाणां सत्यनिष्ठघटनानां पक्षविपक्षाणाञ्च समुल्लेखो राजते ।

Pages : 159-161 | 99 Views | 44 Downloads


International Journal of Sanskrit Research
How to cite this article:
रमन कुमार शर्मा. कल्हणकृतराजतरङ्गिण्यां धार्मिकजीवनस्य वस्तुनिष्ठता. Int J Sanskrit Res 2025;11(6):159-161. DOI: 10.22271/23947519.2025.v11.i6c.2861

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.