International Journal of Sanskrit Research
2025, Vol. 11, Issue 6, Part B
अध्यात्मविद्या च आधुनिक विज्ञानं वेदान्तदृष्ट्या समन्वयः
सुमन दत्तः
अध्यात्मविद्या च आधुनिकविज्ञानं च मानवजीवनस्य द्वौ प्रमुखौ आधारौ स्तः। विज्ञानं तु निरीक्षण-प्रयोग- तर्कादिभिः बाह्यजगतः रहस्यानि उद्घाटयति, अध्यात्मविद्या तु आत्मस्वरूपस्य अन्तर्जगतं प्रकाशयति। वेदान्तदर्शनं एतयोः विरोधं न स्वीकरोति, अपि तु उभयोः परस्परं पूरकभावेन समन्वयं प्रतिपादयति। यतः बाह्यज्ञानं भौतिकसमृद्धिं ददाति, आन्तर्ज्ञानं तु आत्मशान्तिं प्रददाति । एतयोः सम्यक्संगमे एव “पूर्णविज्ञानम्” इति वेदान्तेन निर्दिष्टं ज्ञानं साकारं भवति। अतः वेदान्तदृष्ट्या अध्यात्म -विज्ञानयोः समन्वयः मानवजीवनस्य परिपूर्णतायाः परममार्गः इति निःसंदेहं वक्तुं शक्यते।
How to cite this article:
सुमन दत्तः. अध्यात्मविद्या च आधुनिक विज्ञानं वेदान्तदृष्ट्या समन्वयः. Int J Sanskrit Res 2025;11(6):114-115.