आश्रयोअवधिरुद्देश्यःसम्बन्धशक्तिरेववा।
यथायथंविभक्त्यर्थाःसुपांकर्मेतिभाष्यतः।।इतितत्रद्वितीयातृतीयासप्तमीनाम्आश्रयःअर्,थःउद्देश्यःचतुर्थ्यर्थः, अवधिःपञ्चम्यर्,थःसम्बन्धःषष्ठ्यर्,थःइतियथायथंभाष्यानुसारम्अयम्अर्थःअनयाकारिकयाप्राप्तुंशक्यते।तत्रतृतीयार्थःइदानींविमृश्यते।कर्तृकरणयोस्तृतीयाइतिसूत्रेणकर्तरिकरणेचअर्थेतृतीयाइतिविभक्तिःकर्तृकर्रणयोस्तृतीयाइतिसूत्रेणविधीयते।अर्थात्कर्तरिवाच्येकरणेचवाच्येतृतीयाइतिविभक्तिःतत्रप्रयुज्यते।एवंञ्चकर्तरिविहितायाःतृतीयायाःएवंकरणार्थेविहितायाःतृतीयायाश्चआश्रयःइतिअर्थःज्ञातव्यम्इतिकारिकयाज्ञायते।प्रकृतेउभयोरप्यर्थयोःविषयेकथंतृतीयायाःआश्रयार्थकत्वं?कथंकारकान्तराणांचकर्तृत्वविवेचनम्? इत्यादिविचाराःअत्रउपपाद्यन्ते।
तत्रकर्तृत्वंकेषाम्इतिविषयेविप्रतिपत्तिरस्ति।शास्त्रेषुतत्रचेतनादीनामेवकर्तृत्वंवक्तव्यंकृत्याश्रयत्वात्इतिनैययिकमतम्।एवंभावनाश्रितत्वात्चेतनादीनामेवकर्तृत्वमितिमीमांसकादीनांमतम्।वैयाकरणानांमतेतुनकेवलंचेतनादीनांकर्तृत्वम्अर्थात्क्रियायाःआश्रयाःकर्तारःभवन्तिअपितुअचेतनादीनिस्थाल्यादीनिअपिकर्तारोभवन्ति.
यतःस्थालीपचति, काष्ठानिपचन्ति, तण्डुलःपचतेस्वयमेव, इत्यादिप्रतीतिबलात्कारकान्तराणामपिकर्तृत्वंव्याख्यातुम्अत्रइष्टम्अस्ति।
तर्हि तेषां प्रयोगाणां साधुत्वं कथम् इति विषयेपि प्रयोगाणां साधुत्वान्व्याख्यानमपि अस्य लेखनस्य मुख्यमुद्देश्यम्।