वैशिष्ट्यसम्पन्नम् अङ्गसञ्चरणं यत् ताल-लय-सङ्गीत-सहयोगेन क्रियते तत् नृत्यमित्युच्यते । नृत्यविषये उपलब्धेनसाहित्यिक-प्रत्नतात्विक-निदर्शनसमूहेन मन्यते सिन्धुसभ्यतायाः वैदिक-वैदिकोत्तर-कालेऽपि नृत्यचर्चा मानवसमाजे सुप्रचलिता आसीत्, अधुनापि एतस्य चर्चा सम्यकरूपेण दृश्यते ।इदानीं भारतवर्षे मुख्यतया अष्टविधशास्त्रीयनृत्यानि दृश्यन्ते-भरतनाट्यं-कत्थक-ओडिषी-सत्रीय-मणिपुरी-कुचिपुडि-कथाकलि-मोहिनीयाट्टं चेति । एतानि नृत्यानि परस्परं भिन्नं यतः भिन्न-भिन्न-शास्त्रीयग्रन्थान् अनुसरणं क्रियन्ते । अतः भरतनाट्यम् इति नृत्यस्य वैशिष्ट्यं कथाकलि-नृत्यस्य वैशिष्ट्यात् भिन्नमेव । यद्यपि एतेषां साधारणं वैशिष्ट्यम् एतानि सर्वाणि भारतीय-शास्त्रीय-नृत्यमेव ।अतः स्वाभाविकतया प्रश्नः उद्भवति-नृत्यस्य लक्षणं किम्?किं संस्कृतसाहित्ये नृत्यस्य कापि परिभाषा अस्ति या सर्वविधनृत्यस्य मूलवैशिष्ट्यं प्रतिपादयति?प्रस्तावितगवेषणा-सन्दर्भेवस्तुतः एतस्मिन्नेव विषये विस्तारितविवरणं प्रदत्तम् ।