Red Paper
Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 5, Part C

काव्यप्रकाश-साहित्यदर्पणग्रन्थयोः प्रस्तुतस्य रसतत्त्वस्य तुलनात्मकमध्ययनम्

महानन्दतिमिल्सिना

लेखेऽस्मिन् काव्यप्रकाश-साहित्यदर्पणग्रन्थयोः प्रस्तुतस्य रसतत्त्वस्य तुलनात्मकमध्ययनं कृतमस्ति । काव्यप्रकाशग्रन्थनिर्माता मम्मटोऽलङ्कारसिद्धान्तानुयायी वर्तते, एवमेव साहित्यदर्पणग्रन्थरचयिता विश्वनाथ आनन्दवर्धनप्रवर्तितं ध्वनिसिद्धान्तं स्वीकृत्य रसध्वनिमेव काव्यस्यात्मात्वेन स्वीकरोति । मूलतो विश्वनाथेन रसात्मकं वाक्यमेव काव्यम् इति लक्षणं प्रस्तूय काव्ये रसतत्त्वं प्राधान्येन प्रतिपादितम् । एवञ्चानेन रसानुभूतिक्रमे भावकत्व-भोजकत्वव्यापारयोः कल्पना प्रस्तुता । अनेन सहृदयस्य चित्तवृत्तेः सामान्यीकरणेन मनोवैज्ञानिकं विश्लेषणं विहितम् । द्वयोरपि ग्रन्थयोर्भट्टलोल्लट-श्रीशङ्कुक-भट्टनायक-अभिनवगुप्तानां रससूत्रविषयकं मतं प्रस्तुतम्, तत्र काव्यप्रकाशे विस्तरेण व्याख्यानमस्ति चेत् साहित्यदर्पणे सङ्क्षेपेण प्रस्तुतमस्ति । साहित्यदर्पणे करुणादिरसेभ्यः कथं सुखं सञ्जायत इति विषयः सोदाहरणं सकारणं च प्रस्तुतम् । अत्र रसानुभूतौ साधारणीकरणव्यापारस्य विवेचनं कृतम्, एवञ्च रसस्यालौकिकत्वञ्च विविधैः प्रमाणैः प्रमाणितम् । तथैवात्र विभावविवेचने विश्वनाथेन धीरोदात्तादीनां चतुर्विधानां नायकानां स्वकीयापरकीयादीनां बहुविधानां नायिकाभेदानां विवेचनञ्च कृतमस्ति परं मम्मटेन नायकनायिकाभेदानां चर्चा नैव विहिता । विश्वनाथेन वत्सलरसस्यापि विश्लेषणं कृतम् । उभयग्रन्थयो रससिद्धान्ते मूलभूताः साम्याः सन्ति, यतस्तौ भरतमुने रससूत्रम् आधारीकुरुतः । मूलतो मम्मटस्यापेक्षायां विश्वनाथेन सूक्ष्मरूपेण रसतत्त्वस्य विवेचनं कृतं संलक्ष्यते । लेखोऽयं गुणात्मिकायामनुसन्धानपद्धत्यामाधारितो विद्यते । अस्मिननुसन्धाने द्वितीयकस्रोतयुतानां सामग्रीणां संयोजनं कृतमस्ति ।
Pages : 145-151 | 156 Views | 57 Downloads


International Journal of Sanskrit Research
How to cite this article:
महानन्दतिमिल्सिना. काव्यप्रकाश-साहित्यदर्पणग्रन्थयोः प्रस्तुतस्य रसतत्त्वस्य तुलनात्मकमध्ययनम्. Int J Sanskrit Res 2025;11(5):145-151. DOI: 10.22271/23947519.2025.v11.i5c.2807

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.