कविराजस्य विश्वनाथस्य रचनासु साहित्यदर्पण सर्वाधिक: प्रख्यातो वर्त्तते । अस्य ग्रन्थस्येदं वैशिष्ट्यमास्ते यद्स्मिन् ग्रन्थे श्रव्यदृश्ययोरुभयोरेव प्रकारयोः काव्ययोः वर्णनमास्ते । अतः एव सम्पूर्णस्य काव्यशास्त्रस्य आधारग्रन्योऽयं वर्त्तते ।
अस्मिन् ग्रन्थे काव्यलक्षणस्य विषये तथा च शब्दशक्तिनां विषये वर्णनं प्राप्यते। ग्रन्थेऽस्मिन् दश परिच्छेदाः सन्ति, तत्र प्रथमपरिच्छेदे काव्यलक्षणनस्य, काव्यप्रयोजनस्य, काव्यभेदस्य च वर्णनमास्ते । अस्मिन् परिच्छेदे काव्यप्रकाशकारस्य लक्षणस्य विस्तरेण खण्डनं कृतमास्ते । काव्यं परिभाषयन् विश्वनाथ-कविराजः स्वकीये ग्रन्थे साहित्यदर्पणे लिखितमस्ति ‘वाक्यं रसात्मकं काव्यम्’1 अर्थात् रस एवं काव्यस्य आत्मा सन्ति । रसेन बिना काव्यस्य काव्यत्वं नैव सिद्ध्यति । रसाभावे तु शब्दार्थमयं वाक्यं केवलं वाक्यमात्रमेव भवति किन्तु यदा वाक्यं रसात्मकं भवति तदा तत्र काव्यत्वं तु भवत्येव । रसात्यकम् इत्येतस्य अभिप्रायोऽस्ति यत् " रस एव आत्मा साररूपतया जीवनधायको यस्य ।