International Journal of Sanskrit Research
2025, Vol. 11, Issue 4, Part B
कवेः बनमालिबिश्वालस्य काव्येषु वर्णिताः समसामयिक-समस्याः
Swagatika Mishra
साम्प्रतिक-संस्कृतसाहित्ये कवयः समसामयिकसमस्यां वास्तवदृश्यं चेत्यादिविषयमाधारीकृत्य काव्यानि रचयन्ति । समाजिकसमस्याः कथमपि समाजस्य उपकाराय न भवन्ति, अपितु विनाशाय सन्ति । एताः समस्याः राष्ट्रस्य एकतायाः, अखण्डतायाः, सौहार्द्रभावनायाश्च कृते बाधकाः सन्ति । स्वप्रतिभया सुपरिचितस्य कवेः बनमालि-बिश्वालस्य काव्येषु विभिन्नाः सामाजिक-विषयाः स्थानप्राप्ताः दृश्यन्ते । वस्तुतः कविः समाजस्य कोणे अनुकोणे अतीव-गहनतया प्रविश्येव हार्दिक-सहानुभूत्या सह विविध-समसामयिक-समस्यानां वर्णनं कृतवान् । एवञ्च तासां समस्यानां समाधानोपायाः अपि दर्शिताः।
How to cite this article:
Swagatika Mishra. कवेः बनमालिबिश्वालस्य काव्येषु वर्णिताः समसामयिक-समस्याः. Int J Sanskrit Res 2025;11(4):93-98.