प्रस्तुतोऽयं प्रबन्धः साहित्यशास्त्रस्य उत्पत्तिविकासप्रयोजननि च संस्कृतसाहित्यदृष्ट्या सविस्तरं प्रतिपादयति । एवं चात्र शास्त्रशब्दस्य व्युत्पत्तिं विशदीकृत्य "लक्ष्यानुरोधेन लक्षणसङ्गतिः" इति सिद्धान्तानुसारेण चतुर्विधपुरुषार्थसाधनतया शास्त्राणां प्रवृत्तिः निरूपिता ।
अलङ्कारशब्दस्य निष्पत्तिं, तस्य काव्यशोभाकारित्वं, पूर्वसूरिणाम् आचार्याणाम् अलङ्कारलक्षणानि च प्रस्तावितानि । वामन-दण्डी-भामह-उद्भट-रुद्रट-मम्मट-विश्वनाथ-जयदेव-अप्पय्यदीक्षित-जगन्नाथादिभिः आचार्यैः कृतालङ्कारलक्षणानुशीलनेन तेषां ऐतिहासिकविकासं प्रस्तुतम् । शब्दालङ्काराः, अर्थालङ्काराः, उभयालङ्काराः इति अलङ्काराणां प्रमुखविभागः, तथैव रूय्यकप्रभृतिभिः प्रस्तुताः सादृश्यमूलकादयः सप्तविभागाः अपि स्पष्टीकृताः । अन्ते काव्ये अलङ्काराणां माहात्म्यं, तेषां रसोपकर्तृत्वं च प्रतिपादितम् ।