पुष्पेषु जाति: नगरेषु कांचि नदीषु गङ्गा नारीषु रम्भा ।
पुरुषेषु विष्णु क्षितिपेषु राम: काव्येषु माघ: कविकालिदास: ।।
अस्मात् श्लोकात् ज्ञायते यत् कालिदास: कविषु श्रेष्ठ: । संस्कृत साहित्याकाशे ये ये कवय: परिदृश्यन्ते तेषु महाकवि: कालिदासस्य तुलना नस्ति। कविताकामिनीकान्त: कालिदास: कस्यऽपि चेतं न रञ्जयति? तस्य काव्यसौन्दर्यं प्रेक्ष सहृदया: प्रशंसन्ति । कविकुलचूडामणि: कालिदास: न केवलं संस्कृतसाहित्यस्य अपितु विश्वसाहित्यस्य सर्वोच्चकविषु अग्रगण्य: भवति। महाकवे: कालिदासस्य सप्तैव कृतय: प्राधान्येन स्वीक्रियन्ते । नाट्यग्रन्था:- अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रम् । काव्यद्वयम्-रघुवंशम्, कुमारसम्भवम् । गीतिकाव्यद्वयम्-ऋतुसंहारद्वयम् , मेघदूतम् । कालिदासकृतनाटकेषु नदीनां वर्णना अतीव रमणीया भवति। नाटकेषु गङ्गानदी, यमुनानदी, सिन्धुनदी, मालिनीनदीनां वर्णनं प्राप्यते । अनुसंधानदिशा प्रमुखानां नदीनां विषये अत्र मया विस्तरेण विवेचनं क्रियते।