International Journal of Sanskrit Research
2025, Vol. 11, Issue 3, Part E
पाणिनीये प्रत्ययविधानम् – समीक्षात्मकमध्ययनम्
Thahira P
शब्दार्थसिद्ध्यर्थं तु व्याकरणशास्त्रज्ञानमावश्यकम्। असाधुशब्देभ्यो विविच्य साधुशब्दानां ज्ञानं भवति व्याकरणस्य प्रयोजनम्। शब्दानाम् अनुशासनं प्रकृति-प्रत्ययविभागकल्पनया उत्सर्गापवादरीत्या च भवति। पाणिनिः स्वव्याकरणस्य प्रत्ययप्रधानत्वं द्योतयितुं ‘प्रत्ययः’ (३-१-१) इत्यधिकारसूत्रं पठितम् । व्याकरणे प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम्। अतः प्रत्ययानां विधानप्रकारं तद्भेदाश्च प्रबन्धेऽस्मिन् निरूप्यन्ते।
How to cite this article:
Thahira P. पाणिनीये प्रत्ययविधानम् – समीक्षात्मकमध्ययनम्. Int J Sanskrit Res 2025;11(3):333-338.