‘अभिज्ञानशकुन्तलम्’: नाटकस्य चतुर्थाङ्के नाट्यशास्त्रकथितस्य सात्त्विकाभिनयस्य विशिष्टता
रेनू शुक्ला, भोलानाथ साहा
महाकविः कालिदासः संस्कृतसाहित्येनक्षत्रमिव प्रतिभाति इत्यस्मिन् विषये विवादस्य स्थानंनास्ति। तस्य रचितानि त्रीणि नाटकानि रचनाशैल्या, मानवगुणानां क्रमविकाशेन, जीवनवोधस्य चेतनविश्लेषणेन च अद्वितीयानि सन्ति।तथापि ‘अभिज्ञानशकुन्तलम्’ नाटकं कालिदासस्य श्रेष्ठकृतिरूपेण पण्डितैः मन्यते। काव्यसमीक्षकानां मतेन यदि सः अधिकानि काव्यानि नाटकानि वा न रचितवान् स्यात् तर्हि केवलं ‘अभिज्ञानशकुन्तलम्’ इति नाटकेन एव काव्याकाशे अमरत्वं प्राप्नुयात्।अतः उच्यते - ‘कालिदासस्य सर्वस्वमभिज्ञानशकुन्तलम्’ इति। आलोच्यप्रवन्धस्व मुख्यविषयानुसारं महाकवेः कालिदासस्य प्रसिद्धं ‘अभिज्ञानशकुन्तलम्’ इति नाटकस्य चतुर्थाङ्के भरतमुनेः ‘नाट्यशास्त्रम्’ इति ग्रन्थे उल्लिखितानां चतुर्विधाभिनयानां सात्त्विकाभिनयस्य विशिष्टता अथवा कियन्महत्तं जातम् इति चर्चा कृता अस्ति। भरतमुनिना रचितः ‘नाट्यशास्त्रम्’इति ग्रन्थः नाट्यशास्त्रस्य, संगीतशास्त्रस्य, अलङ्कारशास्त्रस्य च इतिहासे प्राचीनतमः अतीव प्रामाणिकः ग्रन्थः च भवति। संस्कृतदृश्यकाव्ये कथं नटाः नट्यः च मञ्चे अवतीर्णाः भूत्वा नाट्यकलां निर्वहन्ति, सुकौशलेन विविधहाव-भावेन रसं प्रसारयन्ति - तदेव दृश्यकाव्यस्व मुख्यं प्रयोजनम्। नट-नटीनां अभिनयकौशलेन सामाजिकाः एकात्मी भूत्वा तं रसं हृदये अनुभवन्ति। अतः भरतमुनिः नाट्यशास्त्रे नाट्यशालानिर्माणं, अलङ्कारं, साज-सज्जां, नृत्यं, गीतं, रसं, भावम् इत्यादीनां चर्चां कृतवान्।एतेषु चतुर्विधाभिनयः इति उल्लेखनीयः। सुखदुःखमिश्रितविविधभावनानां जनानां स्वभावः आङ्गिकः, वाचिकः, आहार्यः, सात्त्विकः इति चतुर्भिः कार्यैः सह सम्बद्धः भूत्वा ‘नाट्यम्’ इति कथ्यते । आलंकारीकानां मतेन संस्कृतसाहित्ये रुपकं जीवनस्य प्रतिबिम्बम् इति कथ्यते। नाट्यदर्पणे जगतः सर्वे भावाः रसाः च सम्यक् प्रतिविम्विताः भवन्ति तथा च सामाजिकजनाः तत् दृष्ट्वा शिक्षां आनन्दं च लभन्ते। नाटकस्य अभिनयकौशलेन दुःखमयजीवनचित्रं हृदये करुणभावं सृजति। विचित्रं यत् करुणरसस्य प्रवाहः सामाजिकहृदये निरन्तरं प्रवहति चेदपि दर्शकाः पाठकाः वा तत् दृश्यं पुनः पुनः द्रष्टुं श्रोतुं च उत्सुकाः भवन्ति। अत्र एव अभिनयकौशलस्य माधुर्यं निहितं भवति। अस्य शोधनिवन्धस्य माध्यमेन महाकवेः कालिदासस्य ‘अभिज्ञानशकुन्तलम्’ इति नाटकस्य चतुर्थाङ्के शकुन्तलायाः यत् करुणविदायदृश्यस्य चित्रम् अङ्कितं तदेव पाठकान् दर्शकान् वा सात्त्विकाभिनयस्य माधुर्यं प्रति आकर्षयति। शकुन्तलायाः पतिगृहयात्राकाले महर्षिः कण्वः द्वयोःसख्योः अनसूया-प्रियंवदयोः मनसः करुणभावं महाकविः अत्र दर्शयतिः तत् अधिकं आकर्षयति।महाकविना कालिदासेन ‘अभिज्ञानशकुन्तलम्’- इति नाटके सात्त्विकादिभावानां यत् निपुणं परिस्फुटनं कृतं तत् अस्मिन् शोधपत्रे मया संक्षेपेन दर्शितम्।