संस्कृतसाहित्ये गणितशास्त्रस्य योगदानम्: एकं विश्लेषणम्
पियूष-कान्ति-पालः
अस्मिन् लेखे दृश्यते यत् प्राचीनभारते गणितशास्त्रस्य विकासः संस्कृतसाहित्यमाध्यमेन कथं जातः? संस्कृतसाहित्यं न केवलं धर्म-दर्शन-कावयदिनिबद्धम्, अपि तु तत्र विज्ञानविषयाः अपि विस्तरेण लिखिताः सन्ति। विशेषतया गणितशास्त्रे संस्कृतस्य योगदानं प्राचीनकालात् एव स्पष्टम् अस्ति। वैदिकसाहित्ये, विशेषतया शुल्वसूत्रेषु, यज्ञवेद्यादीनां मापनं, क्षेत्रगणना, रेखाविन्यासः, समकोणस्य उपयोगः च परिलक्ष्यते। ब्राह्मणेषु, उपनिषद्सु च पुनर्जन्म, ब्रह्म, कर्मफलादीनां वर्णनसमये गणनात्मकदृष्ट्या विश्लेषणं कृतम्। बौद्धसाहित्ये मुद्रा (अङ्गुलिभिः गणना), गणना (संख्यानां उपयोगः), संख्यायनम् (सूक्ष्मगणितम्) इत्यादीनाम् उल्लेखः अपि अस्ति। उत्तरकालीनगणितग्रन्थेषु — ब्रह्मगुप्तस्य ब्राह्मस्फुटसिद्धान्ते, भास्कराचार्यस्य लीलावत्यां, श्रीधराचार्यस्य पाटीगणितसारे, महावीराचार्यस्य गणितसारसङ्ग्रहे च योगः, वियोगः, गुणनम्, भागः, ऋणसङ्ख्या, चिह्नप्रयोगः, सूत्रपद्धतिः चेत्यादयः सुविस्तरेण उपस्थापिताः। विविधरीत्या उदाहरणैः सह नियमाः निर्दिष्टाः, ये आधुनिकगणनायामपि उपयोगिनः भवन्ति। एतेषु ग्रन्थेषु केवलं प्रक्रिया न वर्णिता, किन्तु बालानां शिक्षायै पद्धतिमूलकं शिक्षणं, सूत्ररचनां च यथासम्भवं सुलभतया उपस्थापितम्। एते ग्रन्थाः दर्शयन्ति यत् प्राचीनभारते गणितं केवलं व्यवहाराय न, अपि तु विज्ञानबुद्धेः विकासाय पाठ्यविषयः आसीत्। अतः स्पष्टं ज्ञायते यत् संस्कृतसाहित्यं गणितशास्त्रस्य विकासे अत्यन्तं महत्वपूर्णं योगदानं प्रदत्तम्। अयं लेखः इदं स्पष्टीकरोति यत् संस्कृतं न केवला भाषा, न केवलं साहित्यम्, अपि तु ज्ञानस्य मूलं, विशेषतः भारतीय-ज्ञान-परम्परायाः गणितशास्त्रस्य मूलाधारः एव अस्ति। एतेषां प्राचीनगणितज्ञानां प्रयासैः एव भारतवर्षे गणनाशास्त्रस्य दीर्घजीविता सम्भविता।