International Journal of Sanskrit Research
2025, Vol. 11, Issue 3, Part E
शुक्लयजुर्वेदीयगौणोपनिषत्सु प्रतिपादितमायातत्त्वविमर्शः
इमरुलकायेशः
भारतीयदर्शनं
किल सम्पूर्णतया उपनिषदाधारितम्। उपनिषत्सु विहिता शिक्षा भारतीयसंस्कृतेः मूलाधारत्वेन
प्रमाणत्वेन वा संगृह्यते। उपनिषत्सु प्रतिपादितमाध्यात्मिकज्ञानं दर्शनशास्त्रेषु
दर्शनेतरेषु च शास्त्रेषूपजीव्यत्वेन वरीवर्तते। भारतीयज्ञानपरम्परायां समये समये
विविधाः उपनिषदः समुपजायन्ते। अद्यावधिकाले भारतीयसंस्कृतौ द्विशताधिकोपनिषदः
संरचिताः सन्ति। ताः उपनिषदः मुख्यतया प्राचीनार्वाचीनत्वेन भेदः क्रियते।
प्राचीनकालिकोपनिषदामुपरि शङ्कराचार्येण भाष्यं कृतं दृश्यते। अत एव ताः उपनिषदः
मुख्योपनिषदः इति प्रतिपाद्यन्ते। अपराः समस्ताः उपनिषदः गौणोपनिषदः सन्तीति मतम्।
अत्र अद्वैतसम्मतमायातत्त्वं पर्यालोचितं शुक्लयजुर्वेदीय-गौणोपनिषदाधारेण।
How to cite this article:
इमरुलकायेशः. शुक्लयजुर्वेदीयगौणोपनिषत्सु प्रतिपादितमायातत्त्वविमर्शः. Int J Sanskrit Res 2025;11(3):300-302.