भरतमुनिना
विरचितं नाटकशास्त्रं बुद्धौ निधाय तेषाम् परिपालनपूर्वकं च अस्माकं मणिपुरीजना: नाटककलायां अनेकानेक नवीनप्रयोगं कृतवन्त: । तेषु प्रयोगेषु गृहस्य प्राड़्गणे क्रीडितनाटकस्य “शुमाड़ लीला”
1इति नाम्ना एका नाट्यकला
सुप्रसिद्धं अस्ति। अस्या: नाट्यकलाया: प्रारंभिककाले मैतैईजातिभि: “ सुमाङ् कुम्हैई ” इति
नाम्ना सम्बोध्यते स्म ।अस्यां नाट्यकलायां अस्मदीय मणिपुरराज्यस्य
सुपरिष्कृतसंस्कृति, उन्नतलोक परम्परा एवं उत्तमवेश-भूषणादि च द्रष्टुम्
शक्यन्ते। अतः वयं एवं प्रकारेण कथितुं शक्यामहे यद् नाट्य कला इयं न केवलं
लौकिकजनानां मनोरंजनाय अपितु अनया कलया लोके एकं आदर्शजीवनं कथं जीवेम? इत्यादीनां
विषयाणां शिक्षाप्रदानं अपि क्रियन्ते इति।
शुमाड़्
लीला इत् यस्मिन् नाटके अस्मिन् स्त्रीपात्रस्य कृते अभिनयं तु पुरूषै: कुर्वन्ति। अतः तेषाम् पुरूषाणा़ं स्त्रीपात्राभिनयसमये वास्तविकस्त्रीवद्
प्रदर्शनाय एकां विशिष्टनिपुणतां समुपेक्ष्यते। यथा अंड़्गसंचालनं, वेश भूषणं, वागव्यवहारं च स्त्रीवद् अनुकरणीया: भवन्ति। तेषाम् स्त्रीपात्रानुकरणानां पुरूषाणां इमां विशिष्टाभिनयकलां
आधारीकृत्य विशिष्टरुपेण अध्ययनद्वारा नाट्यशास्त्रस्य उन्नतस्वरूपदर्शनं एव मम
लेखस्य मुख्योद्देश्यमस्ति।