International Journal of Sanskrit Research
2025, Vol. 11, Issue 3, Part B
पाणिनीयसञ्ज्ञाविमर्शः
अर्चना कुमारी
संकेतितार्थबोधकवचनं सञ्ज्ञा । यथा लोकव्यवहारे शब्दप्रयोगेण वस्तूनां पदार्थानाञ्च अवबोधः भवति तथैव व्याकरणवाङ्मयेऽपि शास्त्रप्रक्रियायाः लाघवेन निर्वाहाय सञ्ज्ञाकरणमपेक्षितरूपेण वर्तते । इमाश्च संज्ञाः चिरन्तननव्यभेदेन द्विधा । सञ्ज्ञानं सञ्ज्ञा । लघ्वर्थं हि सञ्ज्ञाकरणम्" इति भाष्यात् । व्याकरणशास्त्रे सञ्ज्ञाकरणं कृत्रिममेव भवति । क्वचित्तु व्याख्यानमासाद्य अकृत्रिमस्यापि अर्थस्य ग्रहणं भवति । सञ्ज्ञा हि शब्द-अर्थभेदेन द्विधा । शब्दसञ्ज्ञायां शब्दस्यैव सम्प्रत्ययो भवति । यथा- वृद्धिः, गुणः, प्रातिपदिकम्, टि-घुः, घ-घिप्रभृतयः । एवमेव अर्थसञ्ज्ञासु विभाषा-लोप-कारकादीनां परिगणनं भवति । पाणिनिना शब्दार्थसंज्ञयोर्मध्ये समादृतत्वात् पूर्वाचार्याणां प्रातिपदिक-सार्वधातुक-द्वितीयाप्रभृतीनां सञ्ज्ञानामपि प्रयोगः कृतः । एतयोः सञ्ज्ञयोः पुनः पंचवर्गेषु विभाजनं कृतम् । चतुर्दशसूत्रैः, निमित्तीकृत्य यया संज्ञया सम्पूर्णा अष्टाध्यायी व्याप्यते सा सञ्ज्ञा चतुर्दशसूत्रीयप्रत्याहारसञ्ज्ञा भवति । चतुर्दशसूत्रीयप्रत्याहारान् विहाय अन्ये सर्वेऽपि प्रत्याहाराः सामान्यसूत्रीयप्रत्याहारसञ्ज्ञां लभन्ते । कस्यचिद् वस्तुनः नामकरणार्थमेव रूढिसञ्ज्ञा प्रयुज्यते । संकेतितार्थस्य बोधादनन्तरं विशेषतात्पर्यावबोधिका अन्वर्थसंज्ञोच्यते । अर्थेन निबन्धनं सम्बन्धो यस्याः सा अर्थनिबन्धना सञ्ज्ञा । एवमस्मिन् शोधपत्रे सञ्ज्ञाविमर्शः प्रतिपादितः ।
How to cite this article:
अर्चना कुमारी. पाणिनीयसञ्ज्ञाविमर्शः. Int J Sanskrit Res 2025;11(3):114-118.