International Journal of Sanskrit Research
2025, Vol. 11, Issue 3, Part B
सततसंधारणीयविकासहेतोः अथर्ववेदीयाः वैयक्तिकविकासविधयः
श्वेता बिश्नोई
भारतीयप्रज्ञायाः मूलत्वेन सुविज्ञातं वैदिकचिन्तनं मानवजीवनस्य सामाजिकार्थिकराजनीतिकधार्मिकाध्यात्मिकादीन् सर्वानपि पक्षान् सविस्तरं विवृणोति इति सर्वैरपि वेदविद्भिः असंशयमेव स्वीक्रियते। पक्षेष्वेतेषु सर्वेष्वपि आर्थिकपक्ष अन्येषां सर्वेषामपि मूलत्वेन विद्यते कस्यापि च राष्ट्रस्य आर्थिकविकासहेतोः तन्निहितप्राकृतिकसंसाधनानि विशिष्टमहŸवमावहन्ति।एतानि प्राकृतिकसंसाधनानि सम्यक् प्रयुक्तानि राष्ट्रं सततविकासं प्रति नयेयुः,एतत्कृते मानवसंधानमपेक्ष्यते। सामान्यदृष्ट्या नानाविधशिक्षणप्रशिक्षणैः उन्नतचिकित्सासेवाभिच कस्यापि राष्ट्रस्य जनसङ्ख्या मानवसंसाधनत्वेन परिणीयते। अद्यत्वे मानवसंसाधनविकासार्थं बहवः कार्यक्रमाः चलन्तस्तिष्ठन्ति यत्र प्रत्येकमपि राष्ट्रं मनुष्येभ्यो विविधप्रशिक्षणैः आर्थिकोन्नतिं साधयितुं समीहते।एतानि शिक्षणप्रशिक्षणानि नूनमेव आर्थिकविकासं दिशन्ति परं मनुष्येषु श्रेष्ठगुणाभावे स विकासो भ्रष्टाचारयुतएव दृश्यते, अनेन सततसंवहनीयार्थव्यवस्थानिर्माणहेतोः तत्सम्बन्धिनं वैदिकं चिन्तनमपेक्ष्यते। शोधपत्रमिदं मानवसंसाधनविकाससम्बन्धिनम् अथर्ववेदीयम् आर्थिकचिन्तनमुद्घाटयितंु समीहते।
How to cite this article:
श्वेता बिश्नोई. सततसंधारणीयविकासहेतोः अथर्ववेदीयाः वैयक्तिकविकासविधयः. Int J Sanskrit Res 2025;11(3):100-101.