International Journal of Sanskrit Research
2025, Vol. 11, Issue 3, Part B
वाक्यपदीयदिशा कर्तृकरणयोर्भेदविमर्शः
सजनगुहः जे.आर.एफ
कारकविषये पदवाक्यप्रमाणज्ञेन भर्तृहरिणा स्वसिद्धान्तो वाक्यपदीयस्य पदकाण्डे साधनसमुद्देशे व्यरचि। कारकन्तु साधनं हरिनये। क्रियासिद्ध्यर्थं षट् साधनमावश्यकम्। तेषु कर्ता स्वतन्त्रः साधनान्तराणां विनियोगात्। करणन्तु क्रियासिद्धौ प्रकृष्टत्वे सति अतिशयत्वात्साधकतमम्। अत्रेदं वक्तुं शक्यते यद् यद्यपि क्रियासिद्धर्थं कर्ता स्वतन्त्रस्तथापि करणं सर्वदा कर्त्रादिकारकापेक्षया साधकतमम्। कर्ता यथा साधनं करणमपि तथा। परन्तु क्रियानिवृत्त्यर्थं करणेन सर्वदा कर्तुर्व्यापारो व्यवधीयते साधनान्तरवदित्यतस्तस्योत्कृष्टत्वे प्रमाणम्। परन्तु करणस्योत्कृष्टत्वेऽपि कर्तुः स्वातन्त्र्ये न क्वापि हानिर्जायते। यतोहि यद्यपि करणवत्कर्तापि साधनं तथापि किमर्थं कर्तुः स्वातन्त्र्यमक्षतं भविष्यति किमर्थं वा कर्तृकरणयोर्भेदो दृश्यते तत्सर्वं भर्तृहरिदिशा अग्रे वक्ष्यामि।
How to cite this article:
सजनगुहः जे.आर.एफ. वाक्यपदीयदिशा कर्तृकरणयोर्भेदविमर्शः. Int J Sanskrit Res 2025;11(3):87-89.