International Journal of Sanskrit Research
2025, Vol. 11, Issue 3, Part A
वाक्यपदीये पदभेदस्वरूपनिदर्शनम्
राहुल कुमार दुबे
भाषादर्शने पदस्वरूपविमर्शाः तद्भेदानां विचाराश्चाप्यादिकालादेव विवेच्यत्वेनोपतिष्ठन्ते। अस्माकं प्राचीनभारतीयग्रन्थेष्वपि विषयाणाममीषामस्ति महती चर्चा। पदस्वरूपविषये पदविभागविषये च शास्त्रेषु बहुधा विप्रतिपत्तयःसन्ति। किन्त्वत्र पदस्वरूपविवेचनं तेषां विभागानां विमर्शश्चापि तावत् वाक्यपदीयानुरोधम् अस्मिन् निबन्धे उपस्थाप्यते। वाक्यपदीये भर्तृहरिणा नानाविषयप्रसङ्गे पदसम्बद्धाः विचाराः प्रदर्शिताः। वर्णिते विषये वाक्येषु पदानां निरर्थकत्त्वं-पदानामेकत्त्वम्-उपसर्ग-निपात-कर्मप्रवचनीयानां विश्लेषणं पदस्वरूपविवेचने प्रामुख्यानि तत्त्वानि। वाक्यपदीयस्य टीकाकाराः अपि भर्तृहरिविवेचितं पदवैषयिकं पदविभागचिन्तनञ्चापि स्वटीकायां प्रदर्शितवन्तः येन तेषां विशिष्टप्रतिभायाः उदाहरणं समक्षेऽस्माकं शोधपत्रमाध्यमेन प्रस्तुतम्। तस्माद् ‘वाक्यपदीये पदस्वरूपं तद्भेदविचारश्च’ अस्मिन् विवेचने दृष्टिपातः युक्तियुक्तः प्रासङ्गिकश्चापि। शोधपत्रेऽस्मिन् समासेन पदस्वरूपं यथामति निरूपितम्। ततश्चास्मिन् विषये आलोचना अपि प्रस्तुता।
How to cite this article:
राहुल कुमार दुबे. वाक्यपदीये पदभेदस्वरूपनिदर्शनम्. Int J Sanskrit Res 2025;11(3):21-24.