International Journal of Sanskrit Research
2025, Vol. 11, Issue 2, Part D
सांख्यदर्शने नेति नेति भावनाविचारः
लिराज काफ्ले
भारतीयपरम्परानुगुणविचारधारायाः मुख्यस्रोतत्वेन सर्वदा प्रवाहितेषु नैकभारतीयदर्शनेषु सर्वाधिकप्राचीनतमत्वेन विद्यते कपिलमुनिप्रणीतसांख्यदर्शनम् । दर्शनेऽस्मिन् निगदितं हि मुनिना यत्प्रकृतिरेव जगत्कर्त्री तस्याश्च सर्वाणि भूतानि जायन्ते वर्धन्ते चेति । तत्र पञ्चविंशति तत्त्वानि वर्तन्ते येषु मुलेयं प्रकृतिः, तस्याः महदादित्रयोविंशतितत्त्वानि, एतेभ्यः भिन्नः पुरुषः यस्य कैवल्यमवाप्तये प्रकृतिः प्रवर्तत इति । तत्र नेति नेति भावनया एतेषां पञ्चविंशतितत्त्वानाम् अभ्यासेन विशुद्धज्ञानमुत्पद्यते । अनेन च सत्वपुरुषयोरन्यताख्यातिविवेकः सञ्जायते । इयं प्रकृतिः अयं पुरुषः, अहं प्रकृत्याः भिन्नः इत्याकारकानुभवस्समुत्पद्यते । अनेन च पुरुषस्य कैवल्यप्राप्तिः भवति । कैवल्यं त्रिविधदुःखेभ्यः आत्यन्तिकनिवृत्तिप्रदायकं भवति । अतः नेति नेति श्रुतिवाक्यानुकरणेन कथं त्रिविधदुःखध्वंसात्मको मोक्षः अथवा कैवल्यं प्राप्यते तद्विषये अस्माभिः आलोच्यते ।
How to cite this article:
लिराज काफ्ले. सांख्यदर्शने नेति नेति भावनाविचारः. Int J Sanskrit Res 2025;11(2):248-250.