International Journal of Sanskrit Research
2025, Vol. 11, Issue 2, Part D
कवेः बनमालि-बिश्वालस्य काव्यकृतीनां सांस्कृतिकं विवेचनम्
Swagatika Mishra
वैदिककालादारभ्य अद्ययावत् संस्कृत-साहित्यधारा निरवच्छिन्नतया प्रवहमाना । साम्प्रतिक-संस्कृतसाहित्ये कवयः समसामयिकसमस्यां वास्तवदृश्यं चेत्यादिविषयमाधारीकृत्य काव्यानि रचयन्ति । आधुनिक-संस्कृत-साहित्यस्य सुप्रतिष्ठितः सारस्वत-साधकः बनमालिबिश्वालः एकाधारेण कविः, कथाकारः, संस्कृताचार्यः, गवेषकः, सम्पादकः, सफलानुवादकः च । मानवजीवनस्य उत्कर्षसाधनम्, वास्तववादीचित्रणं, भारतीय-संस्कृतेः सुपरिप्रकाशनम् कवेः काव्यानां अन्तःस्वरो वर्तते । करुणरसस्य प्रावल्यं तस्य रचनासु दृश्यते । कविः बनमालिबिश्वालः वैचित्र्यपूर्णानां काव्यानां स्रष्टा । मुक्तछन्दसा काव्यरचना तथा काव्येषु विषयवैविध्यं इत्यादिकारणेन कविः आधुनिक-संस्कृत-वाङ्गमये स्वतन्त्र-स्थानं समलङ्करोति । शोधलेखेऽस्मिन् कवेः काव्येषु वर्णितानां सांस्कृतिक-तत्त्वानां विवेचनार्थं कृतोऽस्ति प्रयासः ।
How to cite this article:
Swagatika Mishra. कवेः बनमालि-बिश्वालस्य काव्यकृतीनां सांस्कृतिकं विवेचनम्. Int J Sanskrit Res 2025;11(2):241-245.