Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 2, Part D

सिद्धान्तकौमुद्यां गुणवृद्धिसन्धिपदविमर्शः

ड. सुनेली देई

सिद्धान्तकौमुद्याः अच्-सन्धिप्रकरणे द्विचत्वारिंशत्संख्याकैः (४२) सूत्रैः चतुर्द्दशवार्त्तिकैः च अच्-सन्धिपदानां साधुत्वं प्रदर्शितमस्ति । सन्धेः नामान्तरं भवति संहिता । वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् । भट्टोजिदीक्षितः स्वकीये सिद्धान्तकौमुदीग्रन्थे संहिताशब्दस्य कृते सन्धिशब्दस्य प्रयोगं करोति । तस्य मतेन सन्धिः पञ्चविधः- १.अच्-सन्धिः, २. प्रकृतिभावसन्धिः, ३. हल्-सन्धिः, ४. विसर्गसन्धिः, ५. स्वादिसन्धिः । अचां सन्धिः- अच्-सन्धिः । अष्टाध्याय्यां स्वरवर्णानां कृते अच्-प्रत्याहारसंज्ञायाः प्रयोगः क्रियते । अच्-प्रत्याहारसंज्ञापदेन अ इ उ ऋ लृ ए ओ ऐ औ इति वर्णाः सभेदं गृह्यन्ते । स्वरवर्णानां मध्ये यः सन्धिः विधीयते, सः सन्धिः स्वरसन्धिः अच्-सन्धिर्वा कथ्यते । शोधपत्रेऽस्मिन् अच्-सन्ध्यन्तर्गते गुणसन्धि-वृद्धिसन्धिपदविषये सविशदमालोच्यते । अत्रउपेन्द्रः रमेशः गङ्गोदकम् कृष्णर्द्धिः तवल्कारः चेति पञ्चगुणसन्धिपदानाम् तथा कृष्णैकत्वम्, गङ्गौघः, देवैश्वर्यम्,कृष्णौत्कण्ठ्यम्, उपैति, उपैधते, प्रष्ठौहः, प्रार्च्छति, उपार्च्छति, प्रार्षभीयति, प्रर्षभीयति, प्राल्कारीयति, प्रल्कारीयति चैतेषां त्रयोदश वृद्धिसन्धिपदानाञ्च अर्थनिर्द्देशपूर्वकं ससूत्रं साधुत्वं प्रदर्शितमस्ति ।
Pages : 221-226 | 70 Views | 44 Downloads


International Journal of Sanskrit Research
How to cite this article:
ड. सुनेली देई. सिद्धान्तकौमुद्यां गुणवृद्धिसन्धिपदविमर्शः. Int J Sanskrit Res 2025;11(2):221-226.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.