नाट्यशास्त्रोक्ताः मुखाभिनयाः, आधुनिकसन्दर्भे तेषां प्रासङ्गिकता च।। author(s) Unnimaya V
abstract भारतीयकलापरम्परायां नाट्यशास्त्रस्य अत्यन्तं महत्वपूर्णं स्थानं वर्तते। अस्मिन् लेखे नाट्यशास्त्रे प्रतिपादितस्य मुखाभिनयस्य स्वरूपं, नाट्ये प्रयोगः, तथा न केवलं पारम्परिकनाट्येषु, अपि तु आधुनिकसन्दर्भेष्वपि तस्य व्याप्तिरस्ति इत्येतत् सप्रमाणं निरूपितम्। भरतमुनिना प्रतिपादिताः अष्टौ रसाः तथा तेषां सम्बन्धिनः भावाः, विभावाः, अनुभावाः, व्यभिचारिभावाश्च यथाक्रमं निरूप्य, तेषां आधुनिकभावविज्ञानशास्त्रेषु दृष्टाः Paul Ekman, Izard, इत्यादीनां चिन्तकानां मतैः तुलनात्मकम् अध्ययनं कृतम्। नाट्यशास्त्रविहितमुखाभिनयानां रतिः, शोकः, हासेत्यादीनां सूक्ष्मभेदयुक्तवर्णनस्य, आधुनिकभावविज्ञानतः अधिकं वैशिष्ट्यमस्ति इत्यपि प्रतिपादितम्। अन्ते, अस्य मुखाभिनयविषयस्य न केवलं कलाक्षेत्रे, अपि तु वाणिज्ये, अपराधशोधने, कृत्रिमबुद्धौ, मनोविज्ञानादिमण्डलेषु विशेषः उपयोगः भवितुमर्हतीति निर्णीयते। अतः भरतमुनिना प्रतिपादितं मुखाभिनयरूपं वैज्ञानिकदृष्ट्या अपि उपयुक्तम् इत्ययं लेखः निरूपयति।