सारांश
आधुनिकयुगः त्वरितगति-सम्पन्नः युगः अस्ति। विज्ञानस्य प्रवृत्तिः, प्रविधेः उत्कर्षः च समाजस्य सर्वासु पार्श्वेषु परिवर्तनं जनयतः। तथापि, एतेषु परिवर्तनासु धर्मशास्त्रस्य उपयोगः तथा महत्त्वं च अद्यापि अजेयः अस्ति। धर्मशास्त्राणि, यानि वैदिक-संस्कृतेः तथा भारतीय-परम्परायाः आधारशिलाः भवन्ति, मानवजीवनस्य सर्वेषु आयामेषु मार्गदर्शनं कुर्वन्ति।
आधुनिकयुगे धर्मशास्त्राणि केवलं धार्मिकं निर्देशं न ददति, अपि तु सामाजिक-नैतिकजीवनस्य सर्वेषु पक्षेषु मार्गदर्शनं कुर्वन्ति। मनुस्मृतिः, याज्ञवल्क्यस्मृतिः इत्यादीनां धर्मशास्त्राणां सिद्धान्ताः आधुनिकसमाजे नूतनाभ्युदयाय उपयुक्ताः सन्ति। धर्मशास्त्राणि सत्यं, अहिंसा, संयमः, दया इत्यादीनां मूल्येषु बलं ददति। आधुनिके उपभोक्तावादी युगे एते नैतिकमूल्याः व्यक्तिनैतिकतायाः प्रोत्साहनं कुर्वन्ति। भारतीयसंविधानस्य निर्माणे धर्मशास्त्राणां न्यायसंबन्धीनि सिद्धान्तानि प्रेरणास्रोतं भूत्वा वर्णितानि। दण्डनीतिः, सामाजिकन्यायः च धर्मशास्त्रेषु विस्तरतः वर्णितः।
आधुनिककाले त्वरितपरिवर्तनस्य समये अपि धर्मशास्त्राणि गृहस्थजीवने कर्तव्यपरायणतां प्रोत्साहयन्ति। विवाहः, उत्तराधिकारः च धर्मशास्त्रेषु उल्लिखिताः जीवननिर्माणस्य आदर्शः सन्ति। धर्मशास्त्रेषु पर्यावरणस्य संरक्षणं प्रकृतिपूजां च विशेषमहत्त्वं दत्तम्। "पृथिवीः माता, पुत्रोऽहम्" इत्यादयः सन्देशाः आधुनिके पर्यावरणीयसमस्यासु समाधानं प्रदानं कुर्वन्ति। धर्मशास्त्रेषु वर्णितं "वसुधैव कुटुम्बकम्" इत्यादि दृष्टिकोणः आज सामाजिकविषमतायाः समस्या समाधानार्थं उपयुक्तः। धर्मशास्त्राणि आधुनिकसमाजे केवलं प्राचीनमूल्यानां संरक्षणं न कुर्वन्ति, अपितु नूतन-समस्यासु समाधानं अपि प्रदर्शयन्ति। एषां सिद्धान्ताः न्यायं, पर्यावरणं, शिक्षा, तथा समाजस्य नैतिकसन्तुलनं स्थिरीकर्तुं समर्थाः। अतः धर्मशास्त्राणाम् आधुनिकयुगे उपयोगः अपरिहार्यः।