मानवीयसंस्कारे ईश्वरस्यस्वाधीनः अवर्णनीयमस्ति। मानवानां संस्कारनिर्माणाय ईश्वरः महत् योगदानं कृतमिति कारणेन ईश्वरविश्वासः आधुनिककालेऽपि वर्तते। एतादृशः ईश्वरः परमात्मा, ॐकारमित्यादि अपरनाम्ना प्रसिद्धः। वेदकालादारभ्य ईश्वरस्वीकारः अकरोत्। कारणं तु वेदेस्मिन् ईश्वरस्य स्थाने इन्द्रादि देवानां प्रतिपादनमेव कुर्वन्ति। मानवेभ्यः क्रियमाणः विविध यागानुष्ठानानां फलेन देवेभ्यः स्वधर्मपरिपालनार्थं शक्तिः प्राप्नोति। तेन मानवजीवनं सुखकरः भविष्यति। देवानां प्रीत्यर्थं क्रियमाणः कर्मणामाविष्कारः चतुर्वेदेषु उत्तमरीत्या प्रतिपादयन्ति।
वैदिककालस्य अन्तिमकाले (भारतीयतत्वचिन्तायाः प्रारम्भकाले) ईश्वरविषये विभिन्नाभिप्रायाणि समागतानि। दर्शनिकाः स्वस्य युक्त्यानुसारं विभिन्नानि अभिप्रायाणि प्रकटितानि। तेषु प्रमुखौ भवतः पतञ्जलेः योगदर्शनम्, गौतमस्य न्यायदर्शनम् च। द्वयोः शास्त्रयोः प्रवर्त्तनशैलिः भिन्नाः चेदपि तेषां लक्ष्यं मोक्षप्राप्तिरेव। शास्त्रद्वयोः ईश्वरस्वीकारः किदृशमिति अवगमनमेव पत्रस्यास्य प्रमुखोद्येश्यः।