भारतस्य प्रसिद्धः चिकित्सा सम्प्रदायः भवति आयुर्वेदः। आयुर्सम्बन्धित वेदमित्यर्थेन आयुर्वेदमिति उच्यते। शरीरेन्द्रियमनात्मा समवेतमेव आयुः अथवा जीवः। आयुर्वेदानुसारं चतुर्पुरुषार्थानां पालनमेव दीर्घजीवनमित्युच्यते। तदर्थं सौख्यमयशरीरमपेक्षणीयम। सौख्यजीवनस्य पालनेनैव तद् साधयितुं शक्यते। सौख्यजीवनस्य प्रतिबन्धकाः भवन्ति रोगपीडाः। वात, पित्त, कफादि त्रिदोषानां कारणेन रोगपीडाः आगमिष्यन्ति। कार्य-कारण सिद्धान्तानुसारं सर्वेषु रोगेषु निश्चयेन कारणम् भविष्यति। अतः आयुर्वेदे रोगकारणेषु अधिकश्रद्धा दत्ता। सौख्यप्रदानाया शास्त्रेऽस्मिन् स्वास्थवृत्तम, आतुरवृत्तमिति विभागद्वयं वर्तेते । द्वयोः विभागयोः समुचितप्रवर्तनेन आयुष्पालनं क्रियते।
ज्योतिषशास्त्रम् आयुर्वेदेन सह विशिष्टसम्बन्धः वर्तते। कालविधायक शास्त्रमिति अपरं नाम्ना ज्योतिषं प्रसिद्धिमस्ति। नवग्रहाणां, द्वादशराशीनां, सप्तविंशति नक्षत्राणां च गतिविगतियोरनुसृत्यैव ज्योतिषशास्त्रं प्रवर्तते। मानजीवनेन सह शास्त्रमिदं सुसंबन्धितमस्ति। ज्योतिषशास्त्रेऽपि मानवानां स्वास्थविषये, रोगविषयेश्च महत्प्रतिपादनमस्ति। ज्योतिषशास्त्रे जन्मकुण्डल्याः माध्यमेन मानवस्य विविधावस्थाः विचार्यन्ते। तत्प्रकारं नवग्रहाणि, द्वादशराशयः, नक्षत्रादयः च मानवस्य शरीरावयवेषु सुसम्बन्धेन वर्तन्ते। ग्रहाणां शुभाऽशुभफलमनुसृत्या भाविकालिन रोगाः अपि निर्धारितुं शक्यते।
ज्योतिषशास्त्रमुपयुज्य रोगः कुत्र वर्तते? रोगस्य कारणानि कानि?, रोगशमनाय उत्तमः समयः कः? इत्यादि कार्याणि अवगत्य प्रसिद्धः भिषग्वरस्य सहायेन रोगनिर्मार्जनं सरलतया कर्तुं शक्यते। अनेन द्वयोः शास्त्रयोः संयुक्तोपयोगेन स्वास्थसंरक्षणं अतिविशिष्टतया कर्तुं शक्यते। स्वास्त्यसंरक्षणाय आयुर्वेद-ज्योतिशास्त्रयोः परस्परसम्बन्धमत्र स्थापयति।