Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 1, Part C

भरतीयपरम्पयायां योगस्वरूपम्

अभिजित् सरकारः, कृष्ण सरकारः

अस्माकं भारतीयपरम्परायां योग: हिरण्यगर्भतः महर्षिपतञ्जल्यादि ऋषिपरम्पराक्रमेण प्राप्तः। विश्वं भारतप्रदत्तोऽयं योगः श्रेष्ठ: उपहाररूपेण वर्तते। प्राचीनकालतः अयं योगः प्राणविद्यारूपेण प्रकाशितो भवति। यमनियमादि अष्टाङ्गयोगेन देहस्थस्य तथा मनसः क्लेशादिकं दूरीभूतं भवति। योग: मनुष्याणां वाह्यिकशुद्धिः तथा आभ्यन्तरशुद्धिः करोति। योग: एक योगसूत्रम, तेन सर्वेषु भ्रातृत्ववधनं सम्भवम् । गङ्गा यथा लोकानां पापान् प्रक्षालयते, तथापि योगोऽपि मनुष्याणां मनसः 'मलिनतारूपपापान् प्रक्षालयते । योगेन मनुष्यानां विचारपरिवर्तनं, स्वास्थ्यवानः, सुस्थ:, आनन्दमयजीवनयात्रा च सम्भवम्। वर्तमाने योगः सूर्यवत् विश्वस्य सर्वत्र प्रकाशते।सम्प्रति विश्वस्य सर्वे जनाः स्वीकृतवन्तः यत् योगः अस्माकं जीवनस्य एकः पद्धतिविशेषः, यः अस्माकं दिनचर्यायाः महत्त्वपूर्णः अङ्गः भवितुम् अर्हति। विश्वे सर्वेषु ग्रन्थेषु वेदाः प्राचीनतमाः इति मन्यन्ते एतदपि सिद्धम् । ब्रह्माण्डस्य सृष्टेः अनन्तरं परमात्मना एव वेदज्ञानं प्रदत्तम्। वेदज्ञानेन सह योगविद्या अपि दत्तवान् । अतः स्पष्टं भवति यत् एते ऋषयः योगाभ्यासं कृत्वा एव वैदिकमन्त्रान् दृष्टवन्तः भवेयुः। अत एव वेदस्य बहुषु स्थानेषु योगवर्णनं प्राप्यते। वेदेन सह बहुषु शास्त्रेषु योगवर्णनमस्ति। अध्यात्मस्य उच्चतमं शिखरं प्राप्तं अस्माकं भारतीयपरम्परायाः मूलविषयः अस्ति। एतेषु सर्वेषु कार्येषु योगाभ्यासः महत्त्वपूर्णः इति मन्यते। योगशास्त्रेषु पञ्चज्ञानेन्द्रियाणां, पञ्चकर्मेन्द्रियाणां, पञ्चवायुनां, महाभूतानां च वर्णनमस्ति। भारतीयशास्त्रेषु तन्त्रिका-प्राण-शक्तिनां वर्णनमपि अस्ति तथा च शास्त्रेषु यम-नियमः, सुलभपच्यः आहारः, शारीरिकक्रियाविधिः, मन्त्रयोगः, लाययोगः च इति उल्लेखः अस्ति। आत्मना सह परमात्मायाः मेलनमेव योगस्य मुख्योद्देश्यः। योगविषये ऋग्वेदे उच्यते- “यस्मादृते सिध्यति यज्ञो..........”। योगस्वरूपनिर्णयप्रसङ्गे योगसूत्रकारेण महर्षिपतञ्जलिना उक्तम्- 'योगश्चित्तवृत्तिनिरोधः"। योगविद्याज्ञानरूपवेदसमुद्रस्य एव केवलं रत्नम् । युज् धातोः घञ् प्रत्यये योग: इति शब्दः निष्पद्यते। योग शब्दस्य अर्थः जीवात्मना सह परमात्मनः युक्तः मेलनं वा, अर्थात् भक्तभगवानयो: मेलनम् ।
Pages : 206-209 | 61 Views | 27 Downloads


International Journal of Sanskrit Research
How to cite this article:
अभिजित् सरकारः, कृष्ण सरकारः. भरतीयपरम्पयायां योगस्वरूपम्. Int J Sanskrit Res 2025;11(1):206-209.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.