International Journal of Sanskrit Research
2025, Vol. 11, Issue 1, Part C
व्रतबन्धसंस्कारस्य कृत्यानां विश्लेषणम्
प्रकाशढकाल
सनातनसंस्कारेषु श्रेष्ठतमः संस्कारो व्रतबन्धसंस्कारः । मातृगर्भादेकवारं जायते तदनु व्रतबन्धसंस्काराद् द्विवारं जायते इत्यनेनैव व्रतबन्धकृतो जनो ‘द्विजः’ इत्यपि कथ्यते । चूडाकर्म, कर्णवेधः, उपनयनम्, वेदारम्भः, इत्यादीनां कर्मणां समुच्चय एव व्रतबन्ध इति कथ्यते । द्विजेन बालकेन व्रतबन्धसंस्कारं कृत्वा ब्रह्मचर्यव्रतपालनपूर्वकं ज्ञानशिक्षयोः कृते आचार्यसमीपं गन्तव्यमिति । बालकाय व्रतबन्धकर्मणि विधिपूर्वकयज्ञोपवितधारणं कृत्वा गायत्रीमन्त्रं श्रावयितव्यम् । तदनु वेदारम्भः कर्तव्यः । बालकं ब्रह्मचर्यव्रते उपन्यस्य तं ब्रह्मचर्यस्य महत्त्वं ज्ञापयन् ब्रह्मचर्यपालनतत्परं कर्तुमेवास्य व्रतबन्धस्य विशेषतात्पर्योऽस्ति ।
How to cite this article:
प्रकाशढकाल. व्रतबन्धसंस्कारस्य कृत्यानां विश्लेषणम्. Int J Sanskrit Res 2025;11(1):150-155.