International Journal of Sanskrit Research
2025, Vol. 11, Issue 1, Part B
कुन्तकः एवं वक्रोक्तिसिद्धान्तश्चः
Hemanth Kumar Nepal
आचार्य कुन्तकः संस्कृत काव्यशास्त्रस्य एकः प्रमुखः विचारकः मान्यते । अनेन वक्रोक्तिसिद्धान्तस्य प्रतिष्ठापनं कृतवान् । तस्याभिप्रायः अस्ति काव्यस्य सम्पूर्णं जीवनं वक्रोक्तेः मध्ये निहितमस्ति । वक्रोक्ति इत्यनेन साधारणकथनात् भिन्नः चातुर्यमयं, चमत्कारीं च विशिष्ट कथनमिति व्यक्तयति । कुन्तकेन वक्रोक्तिमेव काव्यस्यात्मा जीवनं च विनिश्चित्य काव्यनिर्माणे अध्ययने च अस्य अत्यन्तं महत्त्वपूर्णं स्थानं स्वीकृत्य काव्यशास्त्रे तस्य विशेषं योगदानं दत्तवान् । वक्रोक्तिः अभिव्यक्तेः माध्यमं अभिधाशब्दशक्ति इति मतं प्रस्तुत्य त्रयः शब्दशक्तिवादस्य खण्डनं कृतवान् । कुन्तकस्यानुसारं काव्ये शब्दशक्तेः उचितं प्रयोगं कृत्वा काव्यस्य उद्देश्यं साधयितुं समर्थं भवति । वक्रोक्तेः माध्यमेन काव्ये चमत्कारः, वैचित्र्यं च तत्त्वं समावेशयति । वक्रोक्तेः वर्णविन्यासवक्रता, पदपूर्वार्धवक्रता, वाक्यवक्रता इत्यादीनि भेदानि सन्ति । एवं कुन्तकः वक्रोक्तिसिद्धान्ते आधारिकृत्य काव्यशास्त्रे नवीनं दृष्टिकोणं आविष्कृत्य काव्यसौन्दर्ये, अध्ययने, निर्माणे, विश्लेषणे च महत्त्वपूर्णं योगदानं दत्तवान् । अतः अस्मिन् लेखे आचार्य कुन्तकद्वारा प्रतिपादितं वक्रोक्तिसिद्धान्तं परिचायात्मकविधिना उपयोगितासम्पन्नं अध्ययनं कर्तुम् प्रयत्नः कृतः ।
How to cite this article:
Hemanth Kumar Nepal. कुन्तकः एवं वक्रोक्तिसिद्धान्तश्चः. Int J Sanskrit Res 2025;11(1):104-107.