International Journal of Sanskrit Research
2025, Vol. 11, Issue 1, Part B
अलंकारशास्त्रेषु विविधयमकबन्धानां परिशीलनम्
Kalpana Nayak
प्राचीनतमालंकारेषु यमकालंकारः प्रामुख्यं विभर्त्ति । भरतप्रणीतनाट्यशास्त्रेषु समुल्लिखितालंकारेषु उद्भट्टेनः तथा नवीनाचार्येषु अपय्यदीक्षित-पण्डितराजजगन्नाथाभ्यां यमकालंकारविषये किमपि स्पष्टतया न उल्लिखितम् । एतद् विहाय भरत-विश्वनाथ-मम्मट-जयदेवप्रभृतिभिः यमकालंकारविषये तत्वबहुलं समुपस्थापितम् । तत्र शब्दस्य गाम्भीर्यं प्रयोगपाटवं च वर्धापयितुं यमकस्य महत्त्वं नितरां विद्यते । तत्रादौ यमकस्य सत्सु बहुषु भेदेषु अव्यपेतस्य वैविध्यं नितरां अवधातव्यम् । यमकालंकारस्य सूक्ष्मभेदाः काव्यगतशैल्या भोजेन गतिचित्ररुपेण१ समलंकृतम् । गोमूत्रिकाप्रभृतिनां ग्रहणमपि चित्रभेदे अन्तर्भवति । एतत्तु बन्धचित्ररुपेण अपि गृह्यते । एतस्य भेदस्वरुपं च अस्य गतिवैचित्र्योपरि निर्भरति । गोमूत्रिकाषु पादागोमूत्रिका, अर्धगोमूत्रिका, श्लोकगोमूत्रिकारूपेण व्याख्यायन्ते । आलंकारिकदृष्ट्या चित्रबन्ध एव गोमूत्रिका कथ्यते । एवं च गोमूत्रिकावत् तुरङ्गपादबन्धश्च गतिचित्राभ्यन्तरे आपतन्ति । एतदपि प्रक्रमेण स्वतन्त्रतया विनिर्धिष्टः विद्यते । तथा च यमकमध्ये सरयन्त्रबन्धः निपतति । अस्माभिः बन्धः नाम काव्यशैलीं काव्यस्योत्कर्षता निमित्तं प्रतिपादयामि । यत्तु रुद्रटेन बहुधाप्रपञ्चितम् ।
How to cite this article:
Kalpana Nayak. अलंकारशास्त्रेषु विविधयमकबन्धानां परिशीलनम्. Int J Sanskrit Res 2025;11(1):100-103.