Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 1, Part A

संस्कृतसाहित्ये शुकसारिकाप्रलापनकला

Bikram Badyakar

शिवस्योपलब्धये सत्यस्य सौन्दर्यमयी अभिव्यक्ति: कला इत्युच्यते। भारतीयसंस्कृतौ कलाभिरेव सौन्दर्योपासना आनन्दोपासना च क्रियेते। कलेयं अपूर्णं पूर्णं करोति, असुन्दरं सुन्दरं तथा अशिवं शिवं करोति। कला एव जीवनस्य छन्द:, प्राणस्य सरसमुच्छलनम्, सृष्टेर्मूलमन्त्र: दिव्यानन्दस्याक्षय: उत्स:। संस्कृतसाहित्ये कलाया: एका सुसमृद्धा परम्परा परिलक्ष्यते । संसारस्यास्य प्राचीनतमग्रन्थे ऋग्वेदे कला शब्दस्य उल्लेखोऽस्ति। अनन्तरं उपनिषत्सु, ललितविस्तरे रामायणे, महाभारते, कामसूत्रे, राजशेखरप्रणीतायां काव्यमीमांसायां, क्षेमेन्द्रस्य कलाविलासे इत्यादिषु कलाया: प्रसङ्गस्तथा आलोचना अस्ति। अस्या: कलाया: संख्याविषये मतभेदे स्थितेऽपि कलाया: परिनिष्ठित-संख्या चतु:षष्टिरेव। कामसूत्रे चतु:षष्टिसु कलासु शुकसारिकाप्रलापनम् अन्यतमम्। शुकसारिकयो: प्रलापनं न केवलं मन: मोदयति अपितु शुकसारिका: च मन्त्रं स्तोत्रं च उच्चारयितुं समर्था:, विरोहिण्या: नायिकाया: सङ्गित्वेन स्वीकृता:, तथा कदाचित् हितोपदेशं प्रदाय सन्मार्गेऽपि शुक: प्रेरयति। प्रस्तुते शोधपत्रे संस्कृतसाहित्यदृशा शुकसारिकाप्रलापनम् इति कला आलोचयिष्यते।
Pages : 33-38 | 42 Views | 27 Downloads


International Journal of Sanskrit Research
How to cite this article:
Bikram Badyakar. संस्कृतसाहित्ये शुकसारिकाप्रलापनकला. Int J Sanskrit Res 2025;11(1):33-38.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.