Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

International Journal of Sanskrit Research

2024, Vol. 10, Issue 6, Part C

डॉ. एन्-लक्ष्मीनारायणभट्टप्रणीत-कादम्बिनी-खण्डकाव्ये रामायणस्य वर्षाप्रशंसाप्रभावः

रुबिः राणा

सुप्राचीनकालाद् आदिकवेः वाल्मीकेः रामायणमाधारीकृत्य बहूनि काव्यानि कविभिः रचितानि। अधुनापि एषा काव्यरचनाधारा प्रचलति। संस्कृतसाहित्ये महाकाव्यवत् खण्डकाव्यमपि स्वमहिम्ना अधिष्ठितम्। डा.एन्-लक्ष्मीनारायणभट्टप्रणीत-खण्डिकाष्टककाव्येषु कादम्बिनी नाम काव्यस्योपरि रामायणस्य वर्षाप्रशंसायाः प्रभावः परिलक्ष्यते। काव्येჽस्मिन् वर्षा प्रवलसमारोहेण आगच्छति। नयनानन्दजनकेषु पदार्थेषु कादम्बिनी हि कवेर्मानसम् आवर्जयति। वर्षाकाले सा श्यामलकान्तिः सती दिनं रविरिव संवृणोति, पर्वतसदृशकाया सर्वत्र जलं च स्यन्दयति। रामस्य मनः इव कवेर्मनः अपि अत्र प्रकृत्याः सह एकीभूतमभवत्। रामायणे यथा घर्माक्लिष्टा पृथिवी शोकसंन्तप्ता सीतेव वाष्पं विमुञ्चति, तथैव कालेჽस्मिन् सर्वे अपि जनाः घर्मात् मुक्तिं पिपासया गाढसन्तोषं च प्राप्नुवन्ति। तस्याः हेतोः सर्वापि भूमिः सस्यश्यामला विभाति। जलस्रावणद्वारा परोपकारविधानात् कादम्बिन्याः जन्मैव धन्यम्। अस्मिन् पत्रे मया कादम्बिनी-खण्डकाव्यस्य वर्षाप्रशंसा तदुपरि च रामायणस्य प्रभावः इति विषयः आलोच्यते।
Pages : 137-140 | 46 Views | 18 Downloads


International Journal of Sanskrit Research
How to cite this article:
रुबिः राणा. डॉ. एन्-लक्ष्मीनारायणभट्टप्रणीत-कादम्बिनी-खण्डकाव्ये रामायणस्य वर्षाप्रशंसाप्रभावः. Int J Sanskrit Res 2024;10(6):137-140. DOI: 10.22271/23947519.2024.v10.i6c.2529

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.