आदिकविः वाल्मीकिरपि अस्य श्रुतिमाधुर्येण न अस्पृष्टः, तेनापि रामायणस्य सुन्दरकाण्डे पञ्चमसर्गस्य सप्तमसर्गस्य च रचना यमकालङ्कारे कृतास्ति। तस्य एषः यमकप्रयोगः स्वाभाविकोऽस्ति, तेन रसास्वादने व्याघातो न भवति। यथा - रक्षांसि वक्षांसि च विक्षिपन्ति, गात्राणि कान्तासु च विक्षिपन्ति। रूपाणि चित्राणि च विक्षिपन्ति, दृढानि चापानि च विक्षिपन्ति।। रामायणातिरिक्तं महाभारतेऽपि यत्र तत्र यमकस्य प्रयोगः दृश्यते। महाकविकालिदासेनापि तस्य रघुवंशमहाकाव्यस्य नवमसर्गे यमकस्य प्रयोगः कृतः, किन्तु कवेरयं प्रयोगः रससिद्धौ बाधकापेक्षया साधक इति प्रतीयते। तदनन्तरमपि नैकैः कविभिः अस्याः यमकपरम्परायाः अनुकरणं कृतं, किन्तु शनैः शनैः यमकप्रयोगे स्वभाविकतायाः स्थाने कृत्रिमता प्रौढता च आगता। महाकविभट्टिना तु यमकस्य विंशतिः भेदाः प्रदर्शनाय स्वकाव्यस्य सम्पूर्णः दशमसर्गो विरचितः। महाकविमाघेन भारविना चापि स्व-स्वकाव्ये यमके एकैकः सर्गो विरच्य यमकालङ्कारे स्वाभिरुचिः प्रदर्शिता, किन्तु एषां यमकप्रयोगः पूर्वापेक्षया जटिलः दुरुहश्च अस्ति। केषुचित् स्थानेषु तु प्रयोगदुरुहत्वात् अर्थावबोधे रसास्वादने च बाधको भवति। यमकालङ्कारं प्रति कवीनां मोहः निरन्तरं वर्धितं, यस्य परिणामः चित्रकाव्यत्वेनाभवत्।
सम्पूर्णरूपेण यमकमाधृत्य कृतानां काव्यरचनानां नामोल्लेखोऽत्र क्रियते - घटकर्परकाव्यं, कीचकवधं, यमकभारतं, यमकरत्नाकरं, यमकस्तुतिः, रघूदयः, रामयमकार्णवं, कृष्णलीला, रामचन्द्रोदयः, राक्षसकाव्यं, देवीचरितोदयं, शिवोदयं, अच्युतलीला, सौरिचरितं, गौरीकल्याणं, सीताहरणं, रामचरितं, सत्यतपः कथोदयं, रुक्मणी स्वयंवरः, रामलीलामृतं, यमकशिखामणिप्रभृतीनि अनेकयमककाव्यानि रचितानि।
अस्यामेव यमककाव्यस्य विशिष्टपरम्परायां कविवासुदेवस्यापि चत्वारि काव्यानि - युधिष्ठिरविजयं, त्रिपुरदहनं, शौरिकथोदयं, नलोदयमित्येतानि साहित्यजगति सुप्रसिद्धानि वर्तन्ते। प्रकृतशोधपत्रस्य विषयः त्रिपुरदहनकाव्यं स्वीकृतत्त्वात् तस्यैव विस्तृतं विवेचनमत्र क्रियते।
श्रीवासुदेवस्य चतुर्षु काव्येषु अन्यतमं महत्त्वपूर्णं काव्यमस्ति त्रिपुरदहनम्। कविवासुदेवस्य अन्यकाव्यानां कर्तृत्वविषये विद्वत्सु वैमत्यमासीत्, किन्तु त्रिपुरदहनकाव्यस्य कर्तृत्वविषये कुत्रापि विप्रतिपत्तिर्नास्ति। अस्य काव्यस्य समुपलब्धासु पञ्चस्वपि टीकासु रविपुत्रवासुदेवस्यैव नामोल्लेखः अस्ति। यद्यपि एतत्काव्यं तस्य अन्यकृतिः युधिष्ठिरविजयमिव लोकप्रियं नास्ति, तथापि अस्मिन् काव्ये काव्यदृष्ट्या कापि न्यूनता न दृश्यते। काव्यस्यास्य भावपक्षोऽपि समृद्धो वर्तते। अत्र रसाभिव्यक्तिः(सन्निवेशः), अर्थवैचित्र्यं, व्यङ्ग्योक्तिः, काव्यस्य समस्तविषयाः यैः काव्यं रुचिरं सहृदयाह्लादजनकं भवति, ते सर्वेऽपि विषयाः अत्र समाहिताः।