साहित्यशास्रस्यापरनाम काव्यशास्रोऽपि कथ्यते। आचार्येण कुन्तकेन साहित्यस्य वास्तविकार्थं प्रतिपादयन् कथ्यते । शव्दार्थयो: विशिष्टं सम्बन्धं साहित्यं भवति। साहित्यशास्रे प्रयुक्तसाहित्यशव्द काव्यार्थे प्रयुज्यते। साहित्यशास्रोपरि रचितान् काव्यालंकार-काव्यालंकारसूत्र-काव्यदर्श-काव्यप्रकाशादीन् ग्रन्थान् दृष्ट्वा अनुमीयते यत्, कालान्तरे साहित्यशास्र: काव्यशास्र: नाम्ना प्ररव्यातोऽभवत्। संस्कृतसाहित्ये काव्यशव्देन श्रव्यकाव्यदृश्यकाव्यञ्चेति उभौ गृह्येते। अत: काव्यशास्रे श्रव्यदृश्यकाव्ययो: विविधानामङ्गानां विशदवर्णनं विद्यते। साहित्यशास्रस्य काव्यशास्रस्य च नामान्तरं अलंकारशास्रो भवति। व्याकरणदृष्टया अलंकारशव्दस्य अर्थद्वयं वर्त्तते।
१. अलंकारणमलंकार: - भावे घञ्।
२. अलंक्रियतेऽनेनेति अलंकार: - करणे धञ्।
वस्तुत: साहित्यशास्रस्य विवेचनेषु विषयेषु अलंकाराणां वर्णनं प्रमुखरुपेण वर्णितत्वात् प्राध्यान्येन ’व्यपदेशा भवन्ति“, न्यायेन साहित्यशास्र: अलंकारशास्रोऽपि उच्यते। अलंकार – शास्रोपरि विरचितेषु ग्रन्थकारेषु भामह: दण्डि: उद्भट्ट: वामन: रुट्रट: मम्मट: प्रतिहारेन्दुराज:, रुच्यक:, भोज: राजशेखर:, जयदेव:, विश्वनायकविराज: प्रभृतय: प्रभुखा: भवन्ति। अलंकारसाहित्ये षडसंप्रदाया: विराजन्ते। यथा :-
१.रससंम्प्रदाय:
२.अलंकारसम्प्रदाय:
३.रीतिसम्प्रदाय:
४.ध्वनि: सम्प्रदाय:
५.वक्रोक्ति: सम्प्रदाय:
६.औचित्यसम्प्रदाय:
यद्यपि काव्यशास्रे षडसम्प्रदाया: विराजन्ते। तथापि सर्वेषु सम्प्रदायेषु काव्यस्य सौन्दयमभिवृद्धये एव यत्न: परिलक्षितो भवतिकाव्यसमीक्षात्मकशास्ररुपेण अलंकारशास्रं सर्वै: स्वीकृतम्। फलत: शास्रेऽस्मिन् विविधेषु काव्यनाटकेषु काव्योपजीव्यानि तत्वानि आलोचितानि सन्ति। किं निमित्तं काव्यं पठनीयं श्रवणीयम्वा नाटकञ्च दर्शनीयं। काव्यानुशीलनेन किं प्रयोजनं साध्यते एतेषु विषयेषु ज्ञानवरा: आलंकारिका: विचारं कृतवन्त:। तत्र काव्यस्य हेतुरपि आलोचित:। तत: स्वप्रस्थानानुसारं काव्यस्य स्वरुपं लक्षणञ्च आलंकारिकै: निर्णितम्। शव्दार्थौ काव्यस्य शरीरमेव। शव्दस्य किं स्वरुपं, कतिभेदा:, वृत्तिभेदश्च आलोचिता: भवन्ति। शव्दस्य वृत्तयस्तावत् अभिधालक्षणाव्यञ्जनात्मिका: त्रिविधा:। शव्दस्तु तदनुसारं वाचक:, लाक्षणिक:, व्यञ्जकश्च त्रिविध: भवति। वाचकशब्दस्य वोध्योऽर्थस्तु वाच्यो भवत। लाक्षणिकशब्दस्य बोध्योऽर्थ: लक्ष्यार्थ: व्यञ्जकशब्दस्य बोध्यो व्यङ्गयार्थ: इति अर्था: त्रिविधा: भवन्ति। तत्र गद्यपद्यमिश्रत्वेन काव्यस्य त्रिविधत्वम्। तथा च दृश्यश्रव्यभेदान्नपि आलोचितम्।
पुनश्च व्यङ्गयार्थस्य प्राधन्ये ध्वनिकाव्यमुत्तमं काव्यम, व्यङ्गयस्याप्रधान्ये वाच्यस्यप्रधान्ये गुणीभूतव्यङ्गयं मध्यमकाव्यं व्यङ्गयसाहित्ये शव्दार्थयो: चमत्कारित्वात् चित्रकाव्यं मध्यमकाव्यमिति व्यञ्जनादिशा काव्यस्य त्रय: भेदा: अपि विरचिता:। रसधर्मत्वात् काव्यगुणा: अपि आलंकारिका: विषयभूता: कुर्वन्ति।
काव्यदोषा: धर्मा: अपि काव्यशास्रेषु आलोचिता:। कदाचिदालंकारिका: एतान् विषयान्नतिरिच्य कवीन् प्रति काव्यनिर्माणपद्धतिमपि उपदिशन्ति। न केवलं श्रव्यकाव्यमधिकृत्य अलंकारशास्रे विचार: क्रियते। दृश्यकाव्यमधिकृत्यमपि नाट्यविचार: कृत:।