Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

International Journal of Sanskrit Research

2024, Vol. 10, Issue 6, Part B

उपनिषत्सु नैतिकतत्त्वानि

नीलकमलपण्डितः

सकलज्ञानाधारभूताः मानवजीवनोन्नायकाः निःश्रेयसमार्गस्वरूपाः भारतीयसनातन- संस्कृतेः धारकाः परमात्मनश्शाश्वतीवाणीरूपाः वेदा एव सन्ति जगत आदिमज्ञानराशयः । विश्वस्यागमेषु वेदाः प्राचीनतमाः। विद्यन्ते धर्मादयः पुरुषार्थाः यैस्ते वेदाः । मन्त्रब्राह्मणयोर्निमित्तेन ‘वेद’ इत्येतस्य पदस्य प्रयोगो विधीयते । तत्र मन्त्रात्मकवेदभागः संहितापदेन व्यपदिश्यते यत्र देवतानां स्तुतिर्विधानं विद्यते । ब्राह्मणरूपवेदभागस्तु संहिताभागस्य व्याख्यारूपः। ब्राह्मणमपि भागत्रये विभक्तम्। तद्यथा ब्राह्मणम्, आरण्यकम् उपनिषच्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागः, अरण्ये पठिताः यज्ञस्याध्यात्मिकरूपं विवेचयन्तो वेदभागाः आरण्यकानि, उपनिषदो ब्रह्मबोधकाः मोक्षसाधकाश्च।उप-नि-उपसर्गपूर्वकात् विशारणगत्यवसादनार्थकात् षद्लृ-(सद्)-धातोः क्विपि उपनिषच्छब्दो निष्पद्यते। तत्त्वज्ञानार्थं गुरोः समीपे सविनयं स्थितिः उपनिषद् इत्युच्यते। ।इयम् उपनिषदेव अध्यात्मज्ञानस्य मूलमिति प्रोच्यते । उपनिषत्साहित्यं तु अत्यन्तं निगूढं वेदस्य शीर्षत्वात् ।
वस्तुत उपनिषत्सु ब्रह्मप्राप्ति-आत्मतत्त्व-आध्यामिक-विषयाणामेव केवलं समावेश इति चिन्त्यते अनधीतोपनिषद्भिः। परन्तु यथार्थत उपनिषत्सु ब्रह्मप्राप्त्यादितत्त्वविवरणपुरःसरं मनुष्याणां व्यवहारिके जीवने आवश्यकानि अनुशासन – आत्मसंयम-श्रद्धा- सत्यप्रभृतीनि तत्त्वान्यपि बहुलतया निहितानि दृश्यन्ते । तज्ज्ञानाय तु तासां सश्रद्धमध्ययनं गभीरावलोकनं हृदयङ्गमञ्चात्यावश्यकम् । यतोहि ब्रह्मप्राप्तिसाधनभूतपन्था अत्यन्तं दुष्करः । अत उपनिषत्सु तद्ब्रह्मप्राप्तिसौकर्याय सोपनानि निर्दिष्टानि किञ्च तत्प्रतिपादनानुगुणमेव मानवानां दैनन्दिनजीवने पालयितव्यानि नैतिकतत्त्वान्यपि निगदितानि सन्ति । साम्प्रतं लोकेऽस्मिन् प्रतिदिनं जनानां नैतिकमूल्यानां हासः परिलक्ष्यते । इदं तु मानवसमाजस्य कृते चिन्तनीयो विषयः । मनुष्येषु जायमाना अतिशयभोगतृष्णा एव अनैतिकतायाः बीजोस्ति । जनानां लालसा – आत्मासंयमादिकारणादेव परस्परातिशयविरोधो हिंसा लुण्ठनम् चेत्यादीनि शास्त्रविरुद्धानि अनैतिककार्याणि सम्भवन्ति। वेदस्य शीर्षभूतोपनिषत्सु मानवजीवनोत्कर्षकाः परमपन्थान उपदिष्टाः सन्ति बहुसहस्रवर्षात्पूर्वमेव । तेषाम् उपनिषन्निहितनैतिकसिद्धान्तानां मूल्यानां वा प्रासङ्गिकत्वम् अतिशयेन वर्तते अद्यतनीयाधुनिकसमये । उपनिषत्सु येषां नैतिकमूल्यानां विवेचनं विद्यते तेषां तत्त्वानां विवेचनम् अल्पधिया मया शोधपत्रेऽस्मिन् किञ्चित् उपस्थाप्यते।
Pages : 70-73 | 56 Views | 34 Downloads


International Journal of Sanskrit Research
How to cite this article:
नीलकमलपण्डितः. उपनिषत्सु नैतिकतत्त्वानि. Int J Sanskrit Res 2024;10(6):70-73.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.